________________
१०९
[सू० ३०]
त्रिंशत्स्थानकम् । जे नायगं व रट्ठस्स नेयारं निगमस्स वा । सेटिं बहरवं हंता महामोहं पकुव्वति ॥१६॥
यो नायकं वा प्रभुं राष्ट्रस्य राष्ट्रमहत्तरादिकमिति भावः, तथा नेतारं प्रवर्तयितारं प्रयोजनेषु निगमस्य वाणिजकसमूहस्य, कम् ? श्रेष्ठिनं श्रीदेवताकितपट्टबद्धम्, किंभूतम् ? बहुरवं भूरिशब्दं प्रचुरयशसमित्यर्थः हत्वा महामोहं प्रकुरुत इति षोडशम् 5 १६।
बहजणस्स यारं दीवं ताणं च पाणिणं । एयारिसं नरं हंता महामोहं पकुव्वति ॥१७॥
बहुजनस्य पञ्चषादीनां लोकानां नेतारं नायकं द्वीप इव द्वीपः संसारसागरगतानामाश्वासस्थानम्, अथवा दीप इव दीपोऽज्ञानान्धकारावृत- 10 बुद्धिदृष्टिप्रसराणां शरीरिणां हेयोपादेयवस्तुस्तोमप्रकाशकत्वात्, तम्, अत एव त्राणम् आपद्रक्षणं प्राणिनामेतादृशं यादृशा गणधरादयो भवन्ति, नरं प्रावचनिकादिपुरुषं हत्वा महामोहं प्रकरोतीति सप्तदशम् १७ ।
उवट्ठियं पडिविरयं संजयं सुतवस्सियं । वोकम्म धम्मओ भंसे महामोहं पकुव्वति ॥१८॥
उपस्थितं प्रव्रज्यायाम्, प्रविव्रजिषुमित्यर्थः, प्रतिविरतं सावद्ययोगेभ्यो निवृत्तम्, प्रव्रजितमेवेत्यर्थः, संयतं साधुम्, सुतपस्विनं तपांसि कृतवन्तं शोभनं वा तपः श्रितम् आश्रितम्, क्वचित् जे भिक्खं जगजीवणं ति पाठः, तत्र जगन्ति जङ्गमानि अहिंसकत्वेन जीवयतीति जगजीवनस्तं विविधैः प्रकारैरुपक्रम्याक्रम्य व्युपक्रम्य, बलादित्यर्थः, धर्मात् श्रुत-चारित्रलक्षणाद् भ्रंशयति यः स महामोहं प्रकरोतीति 20 अष्टादशम् १८ । तहेवाणतणाणीणं जिणाणं वरदंसिणं । तेसिं अवण्णिमं बाले महामोहं पकुव्वति ॥१९॥
यथैव प्राक्तनं मोहनीयस्थानं तथैवेदमपि, अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन १. व्युपाक्रम्य जे२ । व्युपक्रम्य नास्ति जे१ हे१,२ ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org