________________
१०८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे बहु शाठ्यानृतं प्रभूतं भषते, श्वेव निन्दितं भाषते, कया? स्त्रीविषयगृद्ध्या हेतुभूतया, स इत्थंभूतो महामोहं प्रकरोतीति द्वादशम् १२ ।
जं निस्सिए उव्वहती जससा अहिगमेण वा ।
तस्स लुब्भइ वित्तम्मि महामोहं पकुव्वइ ॥१३॥ 5 यं राजानं राजामात्यादिकं वा निश्रित आश्रित उद्वहते जीविकालाभेनात्मानं धारयति, कथम् ? यशसा तस्य राजादेः सत्कोऽयमिति प्रसिद्ध्या अभिगमनेन वा सेवया आश्रितराजादेस्तस्य निर्वाहकारणस्य राजादेर्लुभ्यति वित्ते द्रव्ये यः स महामोहं प्रकरोतीति त्रयोदशम् १३।
इस्सरेण अदुवा गामेणं अणिस्सरे इस्सरीकए । ___10 तस्स संपग्गहीयस्स सिरी अतुलमागया ।
ईसादोसेण आइडे कलुसाविलचेयसे । जे अंतरायं चेएइ महामोहं पकुव्वति ॥१४॥
ईश्वरेण प्रभुणा अदुवा अथवा ग्रामेण जनसमूहेन अनीश्वर ईश्वरीकृतः तस्य पूर्वावस्थायामनीश्वरस्य सम्प्रगृहीतस्य पुरस्कृतस्य प्रभ्वादिना श्री: लक्ष्मीरतुला 15 असाधारणा आगता प्राप्ता, अतुलं वा यथा भवतीत्येवं श्री: समागता आगतश्रीकश्च
प्रभ्वाद्युपकारकविषये ईर्ष्यादोषेणाविष्टो युक्तः कलुषेण द्वेषलोभादिलक्षणपापेनाऽऽविलं गडुलमाकुलं वा चेतो यस्य स तथा योऽन्तरायं व्यवच्छेदं जीवित-श्री-भोगानां चेतयते करोति प्रभ्वादेरसौ महामोहं प्रकरोतीति चतुर्दशम् १४ । सप्पी जहा अंडउडं भत्तारं जो विहिंसइ । सेणावई पसत्थारं महामोहं पकुव्वइ ॥१५॥ सप्पी नागी यथा अंडउडं अण्डककूटं स्वकीयमण्डकसमूहमित्यर्थः, अण्डस्य वा पुटं सम्बद्धदलद्वयरूपं हिनस्ति, एवं भर्तारं पोषयितारं यो विहिनस्ति सेनापति राजानं प्रशास्तारम् अमात्यं धर्मपाठकं वा स महामोहं प्रकरोतीति, तन्मरणे बहुजनदुःस्थता भवतीति पञ्चदशम् १५ ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org