SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १०६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे गूढायारी निगूहेजा मायं मायाए छायए । असच्चवाई णिण्हाई महामोहं पकुव्वइ ॥७॥ गूढाचारी प्रच्छन्नाचारवान् निगूहयते गोपयेत्, स्वकीयं प्रच्छन्नं दुष्टमाचारम्, तथा मायां परकीयां मायया स्वकीयया छादयेत् जयेत्, यथा शकुनिमारकाश्छदैरात्मानमावृत्य 5 शकुनीन् गृह्णन्तः स्वकीयमायया शकुनिमायां छादयन्ति, तथा असत्यवादी निह्नवी अपलापकः स्वकीयाया मूलगुणोत्तरगुणप्रतिसेवायाः सूत्रार्थयोर्वा महामोहं प्रकरोतीति सप्तमम् ७ । धंसेइ जो अभूएणं अकम्मं अत्तकम्मुणा । अदुवा तुममकासि त्ति महामोहं पकुव्वइ ॥८॥ 10 ध्वंसयति छायया भ्रंशयति यः पुरुषोऽभूतेन असद्भूतेन, कम् ? अकर्मकम् अविद्यमानदुश्चेष्टितम् आत्मकर्मणा आत्मकृतऋषिघातादिना दुष्टव्यापारेण अदुवा अथवा यदन्येन कृतं तदाश्रित्य परस्य समक्षमेव त्वमकार्षीरेतन्महापापमिति वदति, वदिक्रियायाः गम्यमानत्वात् स इत्यस्यापि गम्यमानत्वात् स महामोहं प्रकरोतीत्यष्टमम् ८ । जाणमाणो परिसओ सच्चामोसाणि भासति । 15 अक्खीणझंझे पुरिसे महामोहं पकुव्वति ॥९॥ जानानः यथा अनृतमेतत्, परिषदः सभाया बहुजनमध्ये इत्यर्थः, सत्यामृषाणि किञ्चित्सत्यानि बैह्वसत्यानि वस्तूनि वाक्यानि वा भाषते अक्षीणझञ्झः अनुपरतकलहः यः स इति गम्यते, महामोहं प्रकरोतीति नवमम् ९ । अणायगस्स नयवं दारे तस्सेव धंसिया । 20 विउलं विक्खोभइत्ताणं किच्चा णं पडिबाहिरं ॥ उवगसंतं पि झंपिता पडिलोमाहिं वग्गूहिं । भोगभोगे वियारेति महामोहं पकुव्वति ॥१०॥ अनायकः अविद्यमाननायको राजा, तस्य, नयवान् नीतिमानमात्यः, स तस्यैव १. स नास्ति खं० हे१ ॥ २. प्रतिषु पाठः- सत्यामृषाणि किंचित्स' हे२ । सत्यमृषा किंचित्स हे२ विना ॥ ३. बहून्यसत्यानि जे२ । बह्वसत्यानि नास्ति खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy