SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ 10 [सू० ३०] त्रिंशत्स्थानकम् । १०५ पाणिना हस्तेन संपिधाय स्थगयित्वा, किं तत् ? श्रोतो रन्ध्र मुखमित्यर्थः, तथा आवृत्य अवरुध्य प्राणिनं ततः अन्तर्नदन्तं गलमध्ये रवं कुर्वन्तं घुरघुरायमाणमित्यर्थः, मारयति यः स इति गम्यते, महामोहं प्रकरोतीति तृतीयम् ३ । जायतेयं समारब्भ बहुं ओलंभिया जणं । अंतोधूमेण मारेति महामोहं पकुव्वइ ॥४॥ जाततेजसं वैश्वानरं समारभ्य प्रज्वाल्य बहुं प्रभूतम् अवरुध्य महामण्डपवाडादिषु प्रक्षिप्य जनं लोकम् अन्त: मध्ये मण्डपादेः धूमेन वह्निलिङ्गेन, अथवा अन्तधूमो यस्य सोऽन्तधूमस्तेन जाततेजसा विभक्तिपरिणामात् मारयति योऽसौ महामोहं प्रकरोतीति चतुर्थम् ४ । सीसम्मि जे पहणइ उत्तमंगम्मि चेयसा । विभज मत्थयं फाले महामोहं पकुव्वति ॥५॥ शीर्षे शिरसि यः प्रहन्ति खड्ग-मुद्रादिना प्रहरति 'प्राणिन'मिति गम्यते, किंभूते स्वभावतः ? शिरसि उत्तमाङ्गे सर्वावयवानां प्रधानावयवे तद्विघातेऽवश्यं मरणात् चेतसा सक्लिष्टेन मनसा, न यथाकथञ्चिदित्यर्थः, तथा विभाज्य मस्तकं प्रकृष्टप्रहारदानेन स्फाटयति विदारयति ग्रीवादिकं कायमपीति गम्यते, स इत्यस्य 15 गम्यमानत्वात् स महामोहं प्रकरोतीति पञ्चमम् ५ । पुणो पुणो पणिहीए हणित्ता उवहसे जणं । फलेणं अदुव दंडेणं महामोहं पकुव्वइ ॥६॥ पौन:पुण्येन प्रणिधिना मायया यथा वाणिजकादिवेषं विधाय गलकर्त्तकाः पथि गच्छता सह गत्वा विजने मारयन्ति, तथा हत्वा विनाश्य य इति गम्यते उपहसेत् 20 आनन्दातिरेकात् जनं मुग्धलोकं हन्यमानम्, केन हत्वा ? फलेन योगविभावितेन मातुलिङ्गादिना, अदुव तथा दण्डेन प्रसिद्धेन, स इति गम्यते, महामोहं प्रकरोतीति षष्ठम् ६ । १. वाहादिषु खं० ॥ २. यस्यासावन्त खं० जे२ ॥ ३. स नास्ति जे२ विना ॥ ४. गलाक' जे१,२, हे? ॥ ५. तथा नास्ति जे२ । जे१ मध्येऽत्र पाठः पतितः ॥ ६. योगभावितेन जे२ हे१,२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy