SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ [सू० २७] सप्तविंशतिस्थानकम् । विरागता अभिष्वङ्गमात्रस्याभावः, अथवा मायालोभयोरनुदयः, मायालोभविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयोनिरोधः प्रागभिहित इतीहापि न पुनरुक्ततेति १९ । मनोवाक्कायानां समाहरणता, पाठान्तरतः समन्वाहरणता अकुशलानां निरोधास्त्रयः २२ । ज्ञानादिसम्पन्नतास्तिस्रः २५ । वेदनातिसहनता शीताद्यतिसहनम् २६ । मारणान्तिकातिसहनता कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमिति २७। 5 ___ तथा जम्बूद्वीपे न धातकीखण्डादौ अभिजिद्वजैः सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्त्तते, अभिजिन्नक्षत्रस्योत्तराषाढचतुर्थपादानुप्रवेशनादिति । तथा मासो नक्षत्र-चन्द्राऽभिवर्द्धित-ऋत्वा-ऽऽदित्यमासभेदात् पञ्चविधोऽन्यत्रोक्तः, तत्र नक्षत्रमासः चन्द्रस्य नक्षत्रमण्डलभोगकाललक्षणः सप्तविंशतिः रात्रिंदिवानि अहोरात्राणि रात्रिंदिवानेणेति अहोरात्रपरिमाणापेक्षयेदं परिमाणं न तु सर्वथा, तस्याधिकतरत्वाद्, आधिक्यं 10 चाहोरात्रसप्तषष्टिभागानामेकविंशत्येति। विमाणपुढवि त्ति विमानानां पृथिवी भूमिका। __तथा वेदकसम्यक्त्वबन्धः, क्षायोपशमिकसम्यक्त्वहेतुभूतशुद्धदलिकपुञ्जरूपा दर्शनमोहनीयप्रकृतिस्तस्य, उवरओ त्ति प्राकृतत्वादुद्वलको वियोजको यो जन्तुस्तस्य मोहनीयकर्मणोऽष्टाविंशतिविधस्य मध्ये सप्तविंशतिरुत्तरप्रकृतयः सत्कर्मांशाः सत्तायामित्यर्थः, एकस्योद्वलितत्वादिति । 15 __ तथा श्रावणमासस्य शुद्धसप्तम्यां सूर्यः सप्तविंशत्यङ्गुलिकां हस्तप्रमाणशङ्कोरिति गम्यते पौरुषीं छायां प्रहरच्छायां निर्वर्त्य दिवसक्षेत्रं रविकरप्रकाशमाकाशं निवर्द्धयन् प्रकाशहान्या हानि नयन् रजनीक्षेत्रम् अन्धकाराक्रान्तमाकाशमभिनिवर्द्धयन् प्रकाशहान्या वृद्धिं नयन् चारं चरति व्योममण्डले भ्रमणं करोति, अयमत्र भावार्थःइह किल स्थूलन्यायमाश्रित्य आषाढ्यां चतुर्विंशत्यगुलप्रमाणा पौरुषीच्छाया भवति, 20 दिनसप्तके च सातिरेके छायाऽगुलं वर्द्धते, ततश्च श्रावणशुद्धसप्तम्यामङ्गुलत्रयं वर्द्धते, सातिरेकैकविंशतितमदिनत्वात्तस्याः, तदेवमाषाढ्याः सत्कैरगुलैः सह सप्तविंशतिरङ्गुलानि भवन्ति, निश्चयतस्तु कर्कसङ्क्रान्तेरारभ्य यत् सातिरेकैकविंशतितमं दिनं तत्रोक्तरूपा पौरुषीच्छाया भवति ॥२७॥ १. धधिस जे२ हे१,२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy