SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ [सू० २५] पञ्चविंशतिस्थानकम् । · [३] ते णं देवा पणुवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १। तेसि णं देवाणं पणुवीसाए वाससहस्सेहिं आहारट्टे समुप्पजति २। संतेगतिया भवसिद्धिया जीवा जे पणुवीसाए [भवग्गहणेहिं सिज्झिस्संति] जाव अंतं करेस्संति ३॥ 5 [टी०] पञ्चविंशतिस्थानकमपि सुबोधम्, नवरमिह स्थितेराग् नव सूत्राणि, तत्र पंचजामस्स त्ति पञ्चानां यामानां महाव्रतानां समाहारः पञ्चयामम्, तस्य भावणाओ त्ति प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्ते इति भावनाः, ताश्च प्रतिमहाव्रतं पञ्च पञ्चेति, तत्रेर्यासमित्याद्याः पञ्च प्रथमस्य महाव्रतस्य, तत्रालोकभाजनभोजनम् आलोकनपूर्वं भाजने पात्रे भोजनं भक्तादेरभ्यवहरणम, अनालोक्य भोजने हि प्राणिहिंसा 10 सम्भवतीति, तथा अनुविचिन्त्यभाषणतादिका द्वितीयस्य, तत्र विवेकः परित्यागः, तथा अवग्रहानुज्ञापनादिकास्तृतीयस्य, तत्रावग्रहानुज्ञापना १ तत्र चानुज्ञाते सीमापरिज्ञानम् २, ज्ञातायां च सीमायां स्वयमेव उग्गहमिति अवग्रहस्यानुग्रहणता पश्चात्स्वीकरणमवस्थानमित्यर्थः ३, साधर्मिकाणां गीतार्थसमुदायविहारिणां संविग्नानामवग्रहो मासादिकालमानेन पञ्चक्रोशादिक्षेत्ररूपः साधर्मिकावग्रहः, तं 15 तानेवानुज्ञाप्य तस्यैव परिभोजनता अवस्थानम्, साधर्मिकाणां क्षेत्रे वसतौ वा तैरनुज्ञाते एव वस्तव्यमिति भावः ४, साधारणं सामान्यं यद्भक्तादि तद्नुज्ञाप्याचार्यादिकं तस्य परिभोजनतेति ५, तथा स्त्र्यादिसंसक्तशयनादिवर्जनादिकाश्चतुर्थस्य, प्रणीताहारः अतिस्नेहवानिति, तथा श्रोत्रेन्द्रियरागोपरत्यादिकाः पञ्चमस्य, अयमभिप्रायः- यो यत्र सजति तस्य तत् परिग्रहेऽवतरति, ततश्च शब्दादौ रागं कुर्वता ते परिगृहीता भवन्तीति 20 परिग्रहविरतिर्विराधिता भवति, अन्यथा त्वाराधितेति, वाचनान्तरे त्वेता आवश्यकानुसारेण दृश्यन्ते । तथा मिच्छादिट्ठीत्यादि, मिथ्यादृष्टिरेव तिर्यग्गत्यादिकाः कर्मप्रकृतीर्बध्नाति न सम्यग्दृष्टिः, तासां मिथ्यात्वप्रत्ययत्वादिति मिथ्यादृष्टिग्रहणम्, विकलेन्द्रियो द्वित्रिचतुरिन्द्रियाणामन्यतमः, णमित्यलङ्कारे, पर्याप्तोऽन्या अपि 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy