SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ [सू० २३] त्रयोविंशतिस्थानकम् । तिकणयियाइं ति नयत्रिकाभिप्रायाच्चिन्त्यन्ते यानि तानि नयत्रिकवन्तीति त्रिकनयिकानीत्युच्यन्ते, त्रैराशिकसूत्रपरिपाट्याम्, इह त्रैराशिका गोशालकमतानुसारिणोऽभिधीयन्ते, यस्मात्ते सर्वं त्र्यात्मकमिच्छन्ति, तद्यथा-जीवोऽजीवो जीवाजीवश्चेति, तथा लोकोऽलोको लोकालोकश्चेत्यादि, नयचिन्तायामपि ते त्रिविधं नयमिच्छन्ति, तद्यथा-द्रव्यास्तिकः पर्यायास्तिकः उभयास्तिकश्चेति, एतदेव 5 नयत्रयमाश्रित्य त्रिकनयिकानीत्युक्तमिति, तथा चउक्कनयियाई ति नयचतुष्काभिप्रायतश्चिन्त्यन्ते यानि तानि चतुष्कनयिकानि, नयचतुष्कं चैवम्, नैगमनयो द्विविध: सामान्यग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स सङ्ग्रहेऽन्तर्भूतो विशेषग्राही तु व्यवहारे, तदेवं सङ्ग्रह-व्यवहार-र्जुसूत्राः शब्दादित्रयं चैक एवेति चत्वारो नया इति, स्वसमयेत्यादि तथैवेति । 10 तथा पुद्गलानाम् अण्वादीनां परिणामो धर्मः पुदगलपरिणामः, स च वर्णपञ्चकगन्धद्वय-रसपञ्चक-स्पर्शाष्टकभेदाद्विंशतिधा, तथा गुरुलघु अगुरुलघु इति भेदद्वयक्षेपाद् द्वाविंशतिः, तत्र गुरुलघु द्रव्यं यत्तिर्यग्गामि वाय्वादि, अगुरुलघु यत् स्थिरं सिद्धिक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादीनि । तथा महितादीनि षड् विमानानि ॥२२॥ [सू० २३] [१] तेवीसं सूयगडज्झयणा पण्णत्ता, तंजहा- समए १, वेतालिए 15 २, उवसग्गपरिण्णा ३, थीपरिण्णा ४, नरयविभत्ती ५, महावीरथुई ६, कुसीलपरिभासिते ७, वीरिए ८, धम्मे ९, समाही १०, मग्गे ११, समोसरणे १२, आहत्तहिए १३, गंथे १४, जमतीते १५, गाथा १६, पुंडरीए १७, किरियट्ठाणे १८, आहारपरिण्णा १९, पच्चक्खाणकिरिया २०, अणगारसुतं २१, अद्दइज २२, णालंदतिनं २३ । । 20 [२] जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाणदंसणे समुप्पण्णे २। १. (दीति ?) ॥ २. "तए णं समणे भगवं महावीरे अणगारे जाए... । तस्स णं भगवंतस्स.. वइसाहसुद्धस्स दसमीपक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिवट्टाए पमाणपत्ताए... केवलवरनाणदंसणे समुप्पने" इति पर्युषणाकल्पसूत्रे महावीरचरित्रे । “अन्ने भणंति- बावीसाए पुव्वण्हे, मल्लि-वीराणं अवरण्हे" इति आवश्यकचूर्णी पृ० १५८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy