SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे मक्षिकादीनामुपलक्षणमिति ५, तथा चेलानां वस्त्राणां बहुधननवीनावदातसुप्रमाणानां सर्वेषां वाऽभावः अचेलम् अचेलत्वमित्यर्थः ६, अरति: मानसो विकारः ७, स्त्री प्रतीता ८, चर्या ग्रामादिष्वनियतविहारिता ९, नैषेधिकी सोपद्रवेतरा च स्वाध्यायभूमिः १०, शय्या मनोज्ञाऽमनोज्ञा वसतिः संस्तारको वा ११, आक्रोशो दुर्वचनम् १२, 5 वधो यष्ट्यादिताडनम् १३, याच्या भिक्षणं तथाविधे प्रयोजने मार्गणं वा १४, अलाभ-रोगौ प्रतीतौ १५-१६, तृणस्पर्शः संस्तारकाभावे तृणेषु शयानस्य १७, जल्लः शरीरवस्त्रादिमलः १८, सत्कारपुरस्कारौ वस्त्रादिपूजना-ऽभ्युत्थानादिसंपादने, सत्कारेण वा पुरस्करणं सन्माननं सत्कारपुरस्कारः १९, ज्ञानं सामान्येन मत्यादि, क्वचिदज्ञानमिति श्रूयते २०, दर्शनं सम्यग्दर्शनम्, सहनं चास्य क्रियादिवादिनां 10 विचित्रमतश्रवणेऽपि निश्चलचित्ततया धारणम् २१, प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेषभूत इति २२ । दृष्टिवादो द्वादशमङ्गम्, स च पञ्चधा - परिकर्म १ सूत्र २ पूर्वगत ३ प्रथमानुयोग ४ चूलिका ५ भेदात्, तत्र दृष्टिवादस्य द्वितीये प्रस्थाने द्वाविंशतिः सूत्राणि, तंत्र सर्वद्रव्य-पर्यायनयाद्यर्थसूचनात् सूत्राणि, छिन्नच्छेयणइयाई ति इह यो नयः सूत्रं छिन्नं 15 छेदेनेच्छति स छिन्नच्छेदनयः, यथा धम्मो मंगलमुक्कट्ठे [दशवै० १।१] इत्यादिश्लोकः सूत्रार्थतः छेदेन स्थितो न द्वितीयादिश्लोकानपेक्षते, इत्येवं यानि सूत्राणि छिन्नच्छेदनयवन्ति तानि छिन्नच्छेदनयिकानि, तानि च स्वसमया जिनमताश्रिता या सूत्राणां परिपाटिः पद्धतिस्तस्यां स्वसमयसूत्रपरिपाट्यां भवन्ति तया वा भवन्तीति, तथा अच्छिन्नच्छेयणयियाई ति इह यो नय: मूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नच्छेदनयो 20 यथा धम्मो मंगलमुक्[दशवै० १।१] इत्यादिश्लोकोऽर्थतो द्वितीयादिश्लोकमपेक्षमाण इत्येवं यान्यच्छिन्नच्छेदनयवन्ति तान्यच्छिन्नच्छेटनयिकानि तानि चाऽऽजीविकसूत्रपरिपाट्यां गोशालकमतप्रतिबद्धसूत्रपद्धत्यां तया वा भवन्ति, अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योन्यमपेक्षमाणानि भवन्तीति भावना, तथा १. यल्लं जे२ ॥ २. सत्कारे वा खं० ॥ ३. तत्र सर्वत्र सर्व जे२ ॥ ४. “धम्मो मंगलमुक्किटं, अहिंसा संजमो तवो । देवा वि तं नमसंति, जस्स धम्मे सया मणो ॥११॥ व्या० धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवाः अपि तं नमस्यन्ति यस्य धर्मे सदा मनः ॥” इति दशवैकालिकसूत्रे हरिभद्रसूरिविरचितायां वृत्तौ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy