________________
[सू० १८] अष्टादशस्थानकम् ।
७१ क्षुद्रकैर्व्यक्तैश्च ये ते सक्षुद्रक-व्यक्ताः, तेषाम्, तत्र क्षुद्रका वयसा श्रुतेन चाऽव्यक्ताः, व्यक्तास्तु ये वयः-श्रुताभ्यां परिणताः, स्थानानि परिहारासेवाश्रयवस्तूनि । व्रतषट्कं महाव्रतानि रात्रिभोजनविरतिश्च, कायषट्कं पृथिवीकायादि, अकल्पः अकल्पनीयपिण्ड-शय्या-वस्त्र-पात्ररूपः पदार्थः, गृहिभाजनं स्थालादि, पर्यको मञ्चकादिः, निषद्या स्त्रिया सहाऽऽसनम्, स्नानं शरीरक्षालनम्, शोभावर्जनं प्रतीतम्। 5 तथा आचारस्य प्रथमाङ्गस्य सचूलिकाकस्य चूडासमन्वितस्य, तस्य हि पिण्डैषणाद्याः पञ्च चूलाः द्वितीयश्रुतस्कन्धात्मिकाः, स च नवब्रह्मचर्याभिधानाध्ययनात्मकप्रथमश्रुतस्कन्धरूपः, तस्यैव चेदं पदप्रमाणं न चूलानाम्, यदाह
नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ ।
हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं ॥ [आचाराङ्गनि० ११] ति। 10 यच्च सचूलिकाकस्येति विशेषणं तत्तस्य चूलिकासत्ताप्रतिपादनार्थम्, न तु पदप्रमाणाभिधानार्थम्, यतोऽवाचि नन्दीटीकाकृता- अट्ठारसपयसहस्साणि पुण पढमसुयखंधस्स नवबंभचेरमइयस्स पमाणं, विचित्तत्थाणि य सुत्ताणि गुरूवएसओ तेसिं अत्थो जाणियन्वो [नन्दीटी० ] त्ति, पदसहस्राणीह यत्रार्थोपलब्धिस्तत् पदम्, पदाग्रेणेति पदपरिमाणेनेति। तथा बंभि त्ति ब्राह्मी आदिदेवस्य भगवतो दुहिता, ब्राह्मी वा 15 संस्कृतादिभेदा वाणी, तामाश्रित्य तेनैव या दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपिः अतस्तस्या ब्राह्मया लिपेः, णमित्यलङ्कारे, लेखो लेखनम्, तस्य विधानं भेदो लेखविधानं प्रज्ञप्तम्, तद्यथा- बंभीत्यादि, एतत्स्वरूपं च न दृष्टमिति न दर्शितम्।
१. “किं पुनरस्याध्ययनतः पदतश्च परिमाणमित्यत आह- नवबंभ.... ... ... ... .. .. वृ०- तत्राध्ययनतो नवब्रह्मचर्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशपदसहस्रात्मकः, वेद इति विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेदः क्षायोपशमिकभाववर्त्ययमाचार इति । सह पञ्चभिश्चूडाभिर्वर्त्तत इति सपञ्चचूडश्च भवति, उक्तशेषानुवादिनी चूडा, तत्र प्रथमा 'पिंडेसण सेज्जिरिया भासज्जाया य वत्थपाएसा उग्गहपडिम'त्ति सप्ताध्ययनात्मिका, द्वितीया सत्तसत्तिक्कया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनम्, बहुबहुयरओ पदग्गेणं ति तत्र चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाद् बहुः, निशीथाख्यपञ्चमचूलिकाप्रक्षेपाद् बहुतरोऽनन्तगमपर्यायात्मकतया बहुतमश्च, पदाग्रेण पदपरिमाणेन भवतीति ॥११॥" - इति शीलाचार्यविरचितायामाचाराङ्गटीकायां प्रथमेऽध्ययने प्रथमे उद्देशके । २. “से किं तं आयारे..." [सू० ८७] इति नन्दीसूत्रस्य हरिभद्रसूरिविरचितायां टीकायामेतदस्ति । जिनदासगणिमहत्तरविरचितायां नन्दीसूत्रस्य चूर्णावपि एतादृशं वर्णनमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org