________________
[सू० १३]
त्रयोदशस्थानकम् । 'हिंसितवान् हिनस्ति हिसिष्यति वा अयं वैरिकादिर्माम्' इत्येवं प्रणिधानेन दण्डो विनाशनं हिंसादण्डः ३ । तथाऽकस्माद् अनभिसंधिनाऽन्यवधार्थप्रवृत्त्या दण्डः अन्यस्य विनाशोऽकस्माद्दण्डः ४ । तथा दृष्टेः बुद्धेर्विपर्यासिका विपर्यासिता वा दृष्टिविपर्यासिका दृष्टिविपर्यासिता वा मतिभ्रम इत्यर्थः, तया दण्डः प्राणिवधो दृष्टिविपर्यासिकादण्डो दृष्टिविपर्यासितादण्डो वा, मित्रादेरमित्रादिबुद्ध्या हननमिति भावः ५। तथा मृषावादः 5 आत्मपरोभयार्थमलीकवचनम्, तदेव प्रत्ययः कारणं यस्य दण्डस्य स मृषावादप्रत्ययः ६ । एवमदत्तादानप्रत्ययोऽपि ७ तथा अध्यात्मनि मनसि भव आध्यात्मिको बाह्यनिमित्तानपेक्षः शोकाभिभव इति भावः ८ । तथा मानप्रत्ययो जात्यादिमदहेतुक ९ । तथा मित्रद्वेषप्रत्ययः माता-पित्रादीनामल्पेऽप्यपराधे महादण्डनिवर्त्तनमिति भावः १० । मायाप्रत्ययो मायानिबन्धनः ११ । एवं लोभप्रत्ययोऽपि १२ । ऐर्यापथिकः 10 केवलयोगप्रत्ययः कर्मबन्धः उपशान्तमोहादीनां सातवेदनीयबन्धः १३। ___ तथा विमाणपत्थड त्ति विमानप्रस्तटा औत्तराधर्यव्यवस्थिताः । तथा सोहम्मवडेंसए त्ति सौधर्मस्य देवलोकस्यार्द्धचन्द्राकारस्य पूर्वापरायतस्य दक्षिणोत्तरविस्तीर्णस्य मध्यभागे त्रयोदशप्रस्तटे शक्रावासभूतं विमानं सौधर्मावतंसकं सौधर्मदेवलोकस्यावतंसकः शेखरकः स इव प्रधानत्वात् इत्येवं यथार्थनामकमिति, णंकारौ वाक्यालङ्कारे, अर्द्धं 15 त्रयोदशं येषु तान्यर्द्धत्रयोदशानि तानि च तानि योजनशतसहस्राणि चेति विग्रहः, सार्द्धानि द्वादशेत्यर्थः । तथाऽर्द्धत्रयोदशानि जातौ जलचरपञ्चेन्द्रियतिर्यग्जातौ कुलकोटीनां योनिप्रमुखानि उत्पत्तिस्थानप्रभवानि यानि शतसहस्राणि तानि तथोच्यन्त इति । तथा पाणाउस्स त्ति, यत्र प्राणिनामायुर्विधान सभेदमभिधीयते तत् प्राणायुादशं पूर्वम्, तस्य त्रयोदश वस्तूनि अध्ययनवद्विभागविशेषाः ।
20 ___ तथा गर्भे गर्भाशये व्युत्क्रान्ति: उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्चेति विग्रहः । प्रयोजनं मनोवाक्कायानां व्यापारणं प्रयोगः, स त्रयोदशविधः, पञ्चदशानां प्रयोगाणां मध्ये आहारका-ऽऽहारकमिश्रलक्षणकायप्रयोगद्वयस्य तिरश्चामभावात्, तौ हि संयमिनामेव स्तः, संयमश्च संयतमनुष्याणामेव
१. भावः नास्ति जे२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org