SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ एकादशस्थानकम् । ४१ [सू० ११] कयसामाइए तृतीया, पोसहोववासनिरए चतुर्थी, राइभत्तपरिणाए पञ्चमी, सचित्तपरिणाए षष्ठी, दिया बंभयारी राओ परिमाणकडे सप्तमी, दिया वि राओ वि बंभयारी असिणाणए यावि भवति वोसट्ठकेस-रोम-नहे अष्टमी, आरंभपरिणाए पेसपरिणाए नवमी, उदिट्ठभत्तवज्जए दशमी, समणभूए यावि भवइ त्ति समणाउसो एकादशीति, क्वचित्तु आरम्भपरिज्ञात इति नवमी, 5 प्रेष्यारम्भपरिज्ञात इति दशमी, उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति । __ तथा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य एकादश एगविंसे त्ति एकविंशतियोजनाधिकानि योजनशतानि अबाहाए त्ति अबाधया व्यवधानेन ‘कृत्वे'ति शेषः, ज्योतिष ज्योतिश्चक्रं चारं परिभ्रमणं चरति आचरति, तथा लोकान्तात् णमित्यलङ्कारे एकादश एक्कारे त्ति एकादशयोजनाधिकानि एकादश योजनशतानि अबाधया 10 व्यवहिततया कृत्वे ति शेषः, जोतिसंते त्ति ज्योतिश्चक्रपर्यन्तः प्रज्ञप्त इति, इदं च वाचनान्तरं व्याख्यातम्, उक्तं च एक्कारसेक्कवीसा सय एक्काराहिया य एक्कारा । मेरुअलोगाबाहं जोइसचक्कं चरइ ठाइ ॥ [बृहत्सं० १०५] इति । अधिकृतवाचनायां पुनरिदमनन्तरं व्याख्यातमालापकद्वयं व्यत्ययेनापि दृश्यते । 15 विमाणसयं भवति त्ति मक्खायं ति इह मकारस्यागमिकत्वादयमर्थः विमानशतं भवतीति कृत्वा आख्यातं प्ररूपितं भगवता अन्यैश्च केवलिभिरिति सुधर्मस्वामिवचनम् । तथा मंदरे णं पव्वए णं धरणितलाओ सिहरतले एक्कारसभागपरिहीणे उच्चत्तेणं पण्णत्ते, अस्यायमर्थः- मेरुभूतलादारभ्य शिखरतलमुपरिभागं यावद्विष्कम्भापेक्षयाऽ- 20 १. निरये जे१,२ खंमू० ॥ २. पेसपरिण्णाए खं० जे१ हे१ मध्ये नास्ति ॥ ३. द्वीपे नास्ति हे२ विना ॥ ४. "विंशे हे२ विना ॥ ५. "कानि एकादश योजनशतानि जे२ खंसं० ॥ ६. एकादश योजनशतानि इति पाठः कुत्रापि नास्ति, केवलं खसं० मध्ये पश्चात् पूरितः ।। ७. “इह यथासङ्ख्येन पदानां योजना, सा चैवम्एकादश योजनशतान्येकविंशत्यधिकानि मेरोरबाधामपान्तरालरूपां कृत्वा मनुष्यलोकवर्ति चरं ज्योतिश्चक्रं चरति । तथैकादश योजनशतान्येकादशाधिकान्यलोकाकाशस्याबाधामपान्तरालरूपां कृत्वा एतावद्भिर्योजनशतैरलोकाकाशादर्वाक स्थित्वेत्यर्थः, स्थिरं ज्योतिश्चक्रं तिष्ठति" ॥१०५॥ इति जिनभद्रगणिक्षमाश्रमणविरचितबृहत्संग्रहण्या मलयगिरिसूरिविरचितायां टीकायाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy