________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ___ तथा सज्ञानं सञ्ज्ञा, सा च यद्यपि हेतुवाद-दृष्टिवाद-दीर्घकालिकोपदेशभेदेन क्रमेण विकलेन्द्रिय-सम्यग्दृष्टि-समनस्कसम्बन्धित्वात् त्रिधा भवति तथापीह दीर्घकालिकोपदेशसञ्ज्ञा ग्राह्येति, सा यस्यास्ति स सञी समनस्कः, तस्य ज्ञानं
सज्ञिज्ञानम्, तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तद्वा से तस्याऽसमुत्पन्नपूर्व 5 समुत्पद्येत, कस्मै प्रयोजनाय ? इत्याह- पुव्वभवे सुमरित्तए त्ति पूर्वभवान् स्मर्तुम्, स्मृतपूर्वभवस्य च संवेगात् समाधिरुत्पद्यते इति समाधिस्थानमेतत् तृतीयमिति ।
तथा देवदर्शनं वा से तस्याऽसमुत्पन्नपूर्वं समुत्पद्येत, देवा हि तस्य गुणित्वाद् दर्शनं ददति, किम्फलम् ? इत्याह- दिव्यां देवर्द्वि प्रधानपरिवारादिरूपां दिव्यां
देवद्युतिं विशिष्टां शरीरा-ऽऽभरणादिदीप्तिं दिव्यं देवानुभावम् उत्तम 10 वैक्रियकरणादिप्रभावं द्रष्टुम्, एतद्दर्शनायेत्यर्थः, देवदर्शनाच्चागमार्थेषु श्रद्धानदाढ्य
धर्मे बहुमानश्च भवति, ततश्चित्तसमाधिरिति भवति देवदर्शनं चित्तसमाधिस्थानमिति चतुर्थम्। __ तथा अवधिज्ञानं वा से तस्याऽसमुत्पन्नपूर्वं समुत्पद्येत, किमर्थम् ? इत्याह
अवधिना मर्यादया नियतद्रव्य-क्षेत्र-काल-भावरूपेण लोकं ज्ञातुम्, लोकज्ञानायेत्यर्थः, 15 भवति च विशिष्टज्ञानाच्चित्तसमाधिरिति पञ्चमं तदिति। एवमवधिदर्शनसूत्रमपीति षष्ठम् ।
तथा मनःपर्यवज्ञानं वा से तस्याऽसमुत्पन्नपूर्वं समुत्पद्येत, किमर्थम् ? अत आह–मणोगते भावे जाणित्तए अर्द्धतृतीयद्वीपसमुद्रेषु सज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां
मनोगतान् भावान् ज्ञातुम्, एतज्ज्ञानायेत्यर्थ इति सप्तमम् ।। 20 तथा केवलज्ञानं वा से तस्याऽसमुत्पन्नपूर्वं समुत्पद्येत, केवलं परिपूर्णम्,
लोक्यते दृश्यते केवलालोकेनेति लोको लोकालोकरूपं वस्तु, तं ज्ञातुम्, केवलज्ञानस्य च समाधिभेदत्वाच्चित्तसमाधिस्थानता, इह चामनस्कतया केवलिनश्चित्तं चैतन्यमवसेयमित्यष्टमम् । एवं केवलदर्शनसूत्रम्, नवरं द्रष्टुमिति विशेष इति नवमम्। तथा केवलिमरणं वा म्रियेत कुर्यात् इत्यर्थः, किमर्थम् ? अत आह
१. सज्ञानं खं० ॥ २. तस्यानुत्पन्न हे२ विना ॥ ३. च नास्ति खं० जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org