SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ [सू० १०] दशस्थानकम् । अत्थेगतिया भवसिद्धिया जीवा जे दसहिं भवग्गहणेहिं जाव करेस्संति३। [टी०] दशस्थानकं सुबोधमेव, तथापि किञ्चिल्लिख्यते । इह पञ्चविंशतिः सूत्राणि। तत्र लाघवं द्रव्यतोऽल्पोपधिता, भावतो गौरवत्यागः । त्यागः सर्वसङ्गानाम्, संविग्नमनोज्ञसाधुदानं वा । ब्रह्मचर्येण वसनम् अवस्थानं ब्रह्मचर्यवास इति । तथा चित्तस्य मनसः समाधिः समाधानं प्रशान्तता, तस्य स्थानानि आश्रया भेदा वा 5 चित्तसमाधिस्थानानि । तत्र धर्मा जीवादिद्रव्याणामुपयोगोत्पादादयः स्वभावाः, तेषां चिन्ता अनुप्रेक्षा, धर्मस्य वा श्रुत-चारित्रात्मकस्य सर्वज्ञभाषितस्य ‘हरिहरादिनिगदितधर्मेभ्यः प्रधानोऽयम्' इत्येवं चिन्ता धर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानान्तरापेक्षया विकल्पार्थः, से इति यः कल्याणभागी तस्य साधोरसमुत्पन्नपूर्वा पूर्वस्मिन्ननादौ अतीते कालेऽनुपजाता, तदुत्पादे 10 ह्युपार्द्धपुद्गलपरावर्तान्ते कल्याणस्यावश्यंभावात्, समुत्पद्येत जायेत, किंप्रयोजना चेयमत आह- सर्वं निरवशेषं धर्मं जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा जाणित्तए ज्ञपरिज्ञया ज्ञातुं ज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयधर्म परिहर्तुम्, इदमुक्तं भवति- धर्मचिन्ता धर्मज्ञानकारणभूता जायत इति, इयं चं समाधेरुक्तलक्षणस्य स्थानमुक्तलक्षणमेव भवतीति प्रथमम् । 15 तथा स्वप्नस्य निद्रावशविकल्पज्ञानस्य दर्शनं संवेदनं स्वप्नदर्शनं तद्वा कल्याणप्राप्तिसूचकमसमुत्पन्नपूर्वं समुत्पद्येत, यथा भगवतो महावीरस्याऽस्थिकग्रामे शूलपाणियक्षकृतोपसर्गावसाने, किंप्रयोजनं चेदम् ? इत्याह- अहातच्चं सुमिणं पासित्तए त्ति, यथा येन प्रकारेण तथ्यः सत्यो यथातथ्यः, सर्वथा निर्व्यभिचार इत्यर्थः, तम्, स्वप्न: स्वप्नफलमुपचारात्, तं द्रष्टुं ज्ञातुम्, अवश्यंभाविनो मुक्त्यादेः 20 शुभस्वप्नफलस्य दर्शनाय साधोः स्वप्नदर्शनमुपजायत इति भावः । क्वचित् सुजाणं ति पाठः, तत्रावितथमवश्यंभावि सुयानं सुगतिं द्रष्टुं ज्ञातुं सुज्ञानं वा भाविशुभार्थपरिच्छेदं संवेदितु मिति, कल्याणसूचकावितथस्वप्नदर्शनाच्च भवति चित्तसमाधिरिति चित्तसमाधिस्थानमिदं द्वितीयम् । १. च नास्ति खं० ॥ २. 'त्पद्यते खं० ॥ ३. आहा जे२ हे१,२ । आह खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy