________________
___ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे नो प्रणीतरसभोजी गलत्स्नेहरसबिन्दुकस्य भोजनस्य भोजको भवतीति पञ्चमी ५, नो पानभोजनस्यातिमात्रम् अप्रमाणं यथा भवत्येवमाहारकः सदा भवतीति षष्ठी ६, नो पूर्वरत-पूर्वक्रीडितमनुस्मर्ता भवति, रतं मैथुनम्, क्रीडितं स्त्रीभिः सह तदन्या क्रीडेति सप्तमी ७, नो शब्दानुपाती, नो रूपानुपाती, नो गन्धानुपाती, 5 नो रसानुपाती, नो स्पर्शानुपाती, नो श्लोकानुपाती, कामोद्दीपकान् शब्दादीनात्मनो वर्णवादं च नानुपतति नानुसरतीत्यर्थः इत्यष्टमी ८, नो सातसौख्यप्रतिबद्धश्चापि भवति, सातात् सातवेदनीयादुदयप्राप्ताद् यत् सौख्यं तत्तथा, अनेन च प्रशमसुखस्य व्युदास इति नवमी ९ । इदं च व्याख्यानं वाचनाद्वयानुसारेण कृतम्,
प्रत्येकवाचनयोरेवंविधसूत्राभावादिति। 10 तथा कुशलानुष्ठानं ब्रह्मचर्यम्, तत्प्रतिपादकान्यध्ययनानि ब्रह्मचर्याणि, तानि चाऽऽचाराङ्गप्रथमश्रुतस्कन्धप्रतिबद्धानीति ।
तथा अभिजिन्नक्षत्रं साधिकानव मुहूर्तांश्चन्द्रेण सार्द्ध योगं सम्बन्धं योजयति करोति, सातिरेकत्वं च तेषां चतुर्विंशत्या मुहूर्तस्य द्विषष्टिभागैः षट्षष्ट्या च द्विषष्टिभागस्य
सप्तषष्टिभागानामिति । तथा अभिजिदादीनि नव नक्षत्राणि चन्द्रस्योत्तरेण योगं 15 योजयन्ति, उत्तरस्यां दिशि स्थितानि दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति
भावः। बहुसमरमणिजाओ इत्यादि, अत्यन्तसमो बहुसमोऽत एव रमणीयो रम्यस्तस्माद् भूमिभागात्, न पर्वतापेक्षया नापि श्वभ्रापेक्षयेति भावः, रुचकापेक्षयेति तात्पर्यम्, अबाहाए त्ति अन्तरे ‘कृत्वे ति शेषः, उवरिल्ले त्ति उपरितनं तारारूपं
तारकजातीयं चारं भ्रमणं चरति करोति । नवजोयणिय त्ति नवयोजनायामा एव 20 प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चयोजनशतिका मत्स्याः सम्भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति । विजयस्य द्वारस्य जम्बूद्वीपसम्बन्धिनः पूर्वदिग्व्यवस्थितस्य एगमेगाए त्ति एकैकस्मिन् बाहाए त्ति बाहौ पार्श्वे भौमानि नगराणीत्येके, विशिष्टस्थानानीत्यन्ये । तथा पक्ष्मादीनि द्वादश सूर्यादीन्यपि द्वादशैव रुचिरादीन्येकादश च विमाननामानीति ॥९॥ १. अव जे२ हे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org