________________
पञ्चस्थानकम् ।
[सू० ५] परितापनं ताडनादिदुःखविशेषलक्षणम्, तेन निर्वृत्ता पारितापनिकी । प्राणातिपातक्रिया प्रतीतेति । तथा काम्यन्ते अभिलष्यन्ते इति कामाः, ते च ते गुणाश्च पुद्गलधर्माः शब्दादय इति कामगुणाः, कामस्य वा मदनस्योद्दीपका गुणाः । कामगुणा: शब्दादय इति । तथा आश्रवद्वाराणि कर्मोपादानोपाया मिथ्यात्वादीनि। संवरस्य कर्मानुपादानस्य द्वाराणि उपायाः संवरद्वाराणि मिथ्यात्वाद्याश्रवद्वारविपरीतानि 5 सम्यक्त्वादीनि । तथा निर्जरा देशतः कर्मक्षपणा, तस्याः स्थानानि आश्रयाः कारणानीति यावत् निर्जरास्थानानि प्राणातिपातविरमणादीनि, एतान्येव च सर्वशब्दविशेषितानि महाव्रतानि भवन्ति, तानि च पूर्वसूत्रेऽभिहितानि, स्थूलशब्दविशेषितानि त्वणुव्रतानि भवन्ति, निर्जरास्थानत्वं पुनरेषां साधारणमिति तदिहैषामभिहितम् ।
तथा समितयः सङ्गताः प्रवृत्तयः, तत्रेर्यासमिति: गमने सम्यक् सत्त्वपरिहारतः 10 प्रवृत्तिः, भाषासमितिः निरवद्यवचनप्रवृत्तिः, एषणासमितिः द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्तिः, आदाने ग्रहणे भाण्डमात्राया उपकरणपरिच्छदस्य निक्षेपणे अवस्थापने समिति: सुप्रत्युपेक्षितादिसाङ्गत्येन प्रवृत्तिश्चतुर्थी, तथोच्चारस्य पुरीषस्य प्रश्रवणस्य मूत्रस्य खेलस्य निष्ठीवनस्य सिंघानस्य नासिकाश्लेष्मणो जल्लस्य च मलस्य परिष्ठापनायां परित्यागे समितिः स्थण्डिलादिदोषपरिहारतः प्रवृत्तिरिति पञ्चमी। 15 अस्तिकायाः प्रदेशराशयः, धर्मास्तिकायादयो गतिस्थित्यवगाहोपयोगस्पर्शादिलक्षणाः। स्थितिसूत्रेषु स्थितेरुत्कृष्टादिविभाग एवमनुगन्तव्यः, यदुत
सागरमेगं १ तिय २ सत्त ३ दस य ४ सत्तरस ५ तह य बावीसा ६ । तेत्तीसं जाव ठिई सत्तसु वि कमेण पुढवीसु ॥१॥
१. यल्लस्य जे१,२ खं० ॥ २. “सप्तसु पृथिवीष्वियं यथासङ्ख्यमुत्कृष्टा स्थितिः । तद्यथा-रत्नप्रभायां पृथिव्यामेकं सागरोपममुत्कृष्टा स्थितिः । शर्कराप्रभायां त्रीणि सागरोपमाणि । वालुकाप्रभायां सप्त । पङ्कप्रभायां दश । धूमप्रभायां सप्तदश । तमः-प्रभायां द्वाविंशतिः । तमस्तमःप्रभायां त्रयस्त्रिंशदिति ॥२३३॥ सम्प्रति सप्तस्वपि पृथिवीषु जघन्यां स्थितिमाह-या प्रथमायां रत्नप्रभाभिधायां पृथिव्यां ज्येष्ठा उत्कृष्टा स्थितिः सागरोपमलक्षणा सा द्वितीयस्यां पृथिव्यां शर्कराप्रभायां कनिष्ठा जघन्या भणिता । एष तरतमयोगो जघन्योत्कृष्टस्थितियोगः सर्वास्वपि पृथिवी भावनीयः । ......२३४॥” इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां टीकायाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org