________________
परमार अभिलेख
धारयोद्धतया साधं दधाति स्म त्रिधारतां। सांयुगीनस्य यस्यासिस् वातुं लोकत्रयीमिव ।।१३॥ - तस्या
मुष्यायणः पुत्रः सूत्रामशरीरथाशिषत् । भूपः सुभटवर्मेति धर्मे तिष्ठा (ष्ठ)न्महीतलम् ।।१४।। यस्य ज्वलति द(दि)ग्जे
तुः प्रतापस्तपनाते (तेः)। दावाग्निच्छया (अ)नाद्यापि गर्ज़द् गू(गु)जरपत्तने ।।१५।। देवभूयं गते तस्मिन्नंदनोर्जुन भूपति :। दोष्णा धत्तेऽधुना धात्रि (त्री) वलयं वलयं यथा ।।१६।। वा (बा) ललीलाहवे यस्य जैवसिन्हे (सिंहे) पलायिते । दिकपा (क्पा) लहा
- सव्याजेन यशो दिक्षु विजृभि (म्भि)तम् ॥१७॥ काव्यगान्धर्व सर्वस्वनिधिना येन साम्प्रतं । भारावतरणं देव्याश्चक्रे
पुस्तकवीणयोः ।।१८।। येन त्रिविधवीरेन (ण) त्रिधा पल्लवितं यशः । धवलत्वं दधुस्त्रीणि जगन्ति कथमन्यथा
॥१९॥ अथार्थिनामपुण्येन पुण्येन स्वर्गसुध्रुवां । सोऽद्भुतत्यागशीलश्च शृंगारी च दिवं गतः
॥२०॥
तत: परमारचन्द्रस्य हरिश्चन्द्रस्य नन्दनः । प्रशास्ति मालवक्षोणी देवपाल: प्रतापवा
(द्वितीय ताम्रपत्र-अग्रभाग)
न् ॥२१॥ तस्मिन्नन्द्रपदं मुदाश्रितवति श्री देवपाले नृपे तत्सूनुद्विषदंतको निजगुणैर्लोका
न् सदा रञ्जयन् । धीमान् जैतुगिदेव एष नृपतिः श्रीमालवाखन्ड (ण्ड)लः शास्ति क्षोणिमिमामुदार च-...
रितैः स्वैर्वा (|)लनारायणः ॥२२।। भुक्त्वा राज्यसुखं तस्मिन् प्राप्ते त्रिदशमंदिरं । शास्ति तस्यानुजः क्षोणी जय
वर्मा जनाधिपः ॥२३॥ स एष नरनायकः सर्वाभ्युदयी महुअड़पथके बड़ौदग्रामे समस्त राजपुरुषान् वा (ब्रा)२४. ह्मणोत्तरान्प्रतिनिवासि-पट्टकिल-जनपदादीश्च वो (बो) धयत्यस्तु वः संविदितं यथा श्रीमन्मण्डप
दुर्ग-स्थितैर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org