________________
सीहोर अभिलेख
२४१
यस्य ज्वलति दिग्जेतुः प्रतापस्तपनद्युतेः । दावाग्निच्छद्मनाऽद्याऽपि गर्जन् गुर्जरपत्तने ॥ १५ ॥ देवभूयं गते तस्मिन् नन्दनोऽर्जुनभूपतिः । दोष्णा धत्तेऽधुना धात्रीवलयं वलयं यथा ||१६|| बाललीलाहवे यस्य जयसिंहे पलायिते । दिक्पालहासव्याजेन यशो दिक्षु विजृम्भितम् ||१७|| काव्यगान्धर्वसर्वस्वनिधिना येन साम्प्रतम् । भारावतारणं देव्याश्चक्रे पुस्तकवीणयोः ।। १८ ।। येन विविधवीरेण त्रिधा पल्लवितं यशः । धवलत्वं दधुस्त्रीणि जगन्ति कथमन्यथा || १९ ॥
स एष नरनायकः सर्वाभ्युदयी सावइरिसोले - सम्बद्ध - उत्तरायणोग्रामे उभुवोसह समस्तराजपुरुषान् ब्राह्मणोत्तरान् प्रतिनिवासी पट्टकिल- जनपदादीश्च बोधयति । अस्तु व: आषाढवदि १५ सोमे सोमवतीतीर्थे स्नात्वा श्रीमदर्जुनवर्मदेवेन सुपुरोधसे पण्डितगोविन्दाय महाकालपुरमध्ये दण्डाधिपतिवासविग्रहमुदकपूर्वं प्रदत्तं प्रतोलीप्रागार - सीमापर्यन्तम् । संविदितं यथा श्रीभृगुकच्छसमावासितैरस्माभिः सप्तत्यधिकद्वादश - शत- संवत्सरे वैशाखवदि अमावस्यायां सूर्यग्रहणपर्वणि स्नात्वा भगवन्तं भवानीपतिमभ्यर्च्य संसारस्याऽसारतां दृष्ट्वा । तथाहि ।
वाताभ्रविभ्रमिदं वसुधाधिपत्यमापातमात्रमधुरो विषयोपभोगः । प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥२०॥
इति सर्व विमृश्यादृष्टफलमङ्गीकृत्य मुक्तावस्थुस्थान - विनिर्गताय वाजसनेयशाखाध्यामि काश्यपगोत्राय काश्यपावत्सारनैधुवेति त्रिप्रवरायाऽऽवसथिकदेल्ह-प्रपौत्राय पण्डित - सोमदेवपौत्त्राय पण्डित - जैनसिंह- पुत्राय पुरोहित-गोविन्दशर्मणे ब्राह्मणाय समस्तोऽपि ग्रामश्चतुः कङ्कटविशुद्धः सवृक्षमालाकुलः सहिरण्यभागभोगः सोपरिकरः सर्वादायसमेतः सनिधिनिक्षेपो मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये चन्द्रार्कार्णवक्षितिसमकालं यावत् परया भक्त्या शासनेनोदकपूर्वं प्रदत्तः । तन् तन्निवासिपट्टकिलजनपदैर्यथादीयमान भागभोगकर - हिरण्यादिकं देवब्राह्मणभुक्तिवर्जमाज्ञाविधेयैर्भूत्वा सर्वममुष्मै दातव्यम् । सामान्यं चैतत्पुण्यफलं बुध्वाऽस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्त-धर्मादायोऽयमनुमन्तव्यः पालनीयश्च । उक्तं च ।
मत्वा
बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ||२१|| स्वदत्ता परदत्तां वा यो हरेत् वसुन्धराम् । स विष्टायां कृमिभूत्वा पितृभिः सह मज्जति ॥ २२ ॥ | सर्वानेवं भाविनो भूमिपालान् भूयो भूयो याचते रामचन्द्रः । सामान्योऽयं धर्मसेतुर्नराणां काले काले पालनीयो भवद्भिः ||२३|| इति कमलदलम्बु बिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । सकलमिदमुदाहृतं च बुध्वा न हि पुरुषः परकीर्तयो विलोप्याः ॥ २४ ॥
इति संवत् १२७० वैशाख वदि १५ सोमे ॥ दू । श्री मु ३ ।। रचितमिदं महासांधि- पंश्रीबिल्हणसम्मतेन राजगुरुणा मदनेन् । स्वहस्तोऽयं महाराज - श्रीमदर्जुनवर्मदेवस्य । उत्कीर्ण पण्डित -
देवेन ।
(अनुवाद)
ओं । पुरुषार्थों में सर्वोत्कृष्ट धर्म को नमस्कार ।
१.
समस्त पृथ्वी के प्रतिबिंब स्वरूप भूमि को ग्रहण कर जो संसार को आनंदित करते हैं। ऐसे द्विजेन्द्र आप का कल्याण करें ।
२.
रण में हत क्षत्रियों के रक्त से व्याप्त अस्त होते सूर्य को प्रतिबिम्ब के समान पृथ्वी जिस दानदाता के लिये लालिमा को धारण किये है उस परशुराम की जय हो ।
जिसने अपनी प्राणेश्वरी (सीता) की वियोगाग्नि को युद्ध में मंदोदरी के आश्रुजल से बुझाया वह राम आपको श्रेय प्रदान करे ।
३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org