________________
पिपलियानगर अभिलेख
२२१
(मूल पाठ) श्रीः। श्रीगणेशायनमः । स्वस्ति जयोभ्युदश्च ।
जयति व्योमकेशोसौ यः सर्गाय विभति तां । ऐंदवी शिरसा लेखां जगद्वीजांकुराकृति ॥१॥ तन्वन्तु वः स्मरारातेः कल्याणमनिशं जटाः । कल्पान्तसमयोद्दाम-तडिद्वलयपिङ्गलाः ।।२।।
परमभट्टारक-महाराजाधिराज-परमेश्वर--श्री-उदयादित्य-पादानुध्यात-परमभट्टारक-महाराजाधिराज-परमेश्वर-श्रीनरवर्मदेव-पादानुध्यात-परमभट्टारक-महाराजाधिराज-परमेश्वर-श्रीयशोवर्मदेवपादानुध्यात-परमभट्टारक-महाराजाधिराज-परमेश्वर-श्रीजयवर्मदेव इत्येतस्मात्पृष्ठतमप्रभोः प्रसादावाप्तनिजाधिपत्यःसमस्तप्रशस्तोपेत-समधिगतपञ्च-महाशब्दालंकार-विराजमान-महाकुमार-श्रीहरिश्चन्द्रदेवः नीलगिरिमण्डलेऽमडापद्र-प्रतिजागरणके संबद्धपलसवाडा-ग्रामनिवासि-सम्मतिग्रामनिवासिनश्च समस्त-राजपुरुष-विषयिके पदाकिलजनपदादि ब्राह्मणोत्तरान बोधयत्यस्त वः संविदितं यथाऽस्माभि श्री विक्रमकालातीत १२३५ पञ्चविंशदधिक-द्वादशशत-संवत्सरान्तःपाति-पौष-वदि अमावास्यायां संजात-सूर्यपर्वणि चतुर्मुखमार्कण्डेश्वर देवोपकण्ठे विमलतर-पवित्र-नर्मदातीर्थांभोभिः स्नात्वा सितवाससी परिधाय देवर्षिमनुष्यपितृन् सन्तर्प्य चराचरगुरुं भगवन्तं भवानीपतिं समभ्यर्च्य समित्कुशतिलान्नाद्याहुतिभिर्हिरण्यरेतसं हुत्वा जातवेऽर्थ विधाय कपिलां त्रिः प्रदक्षिणीकृत्योपस्पृश्य गो-सहस्रनाम् महादानं दत्वा च संसारस्यासारतां दृष्ट्वा नलिनीदलगत-जलविन्दुवच्चञ्चलतरं यौवनं वितं चावेक्ष्य । उक्तञ्च ।
वाताभ्रविभ्रममिदं वसुधाधिपत्य मापातमात्रमधुरो विषयोपभोगः । प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ।।३।।
इत्येवमाकलय्य । मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये कात्यायन-गोत्राय त्रिप्रवराय पण्डितसिंहसुत-पण्डित-दशरथ-शर्मणे विलिखित-परसवाडा ग्रामस्यांशद्वयमकेश २ तथा १२३६ षदिशदधिक द्वादशशत-संवत्सरान्तःपाति-वैशाखमासि पौर्णमास्यां पराशरगोत्राय त्रिप्रवराय पण्डित देलसुत-पण्डित मालूणे शर्मणे ब्राह्मणयांशमेकम केऽशं १ गुणपुरदुर्गतलहट्टिका-वासनिका-युक्तमित्युभयमंशम् एवमंशबयोपकल्पितो नीलगिरि-मण्डलीय-कुडवमाप्येन चत्वारिंशन्मानिकापरिमित उपरिलिखित सवाडाग्राम: सवृक्षमालाकुलो निधिनिक्षेप-सहितश्चतु:ककट-विश्रुद्धो वापीकूपतडागोपयुक्तः । सर्वाभ्यन्तरसिद्धयाससनेनोदकपूर्वकतया प्रदत्तः। तत्र च ग्रामनिवासि-पट्टकिलादिलोकैस्तथा कर्षकैश्चात्रग्रामे यथेत्पद्यमान भागभोगकर-हिरण्यादिकमाज्ञावाग्विधेयैर्भूत्वा सर्वमनयोः समुपनेतव्यं सामान्यं चैतत्पुण्यफलं बुध्वास्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्त धर्मादायोयमनुमन्तव्यः पालनीयञ्च ।। यते ।।
बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ।।४।। भूमि यः प्रतिगृहणाति यश्च भूमि प्रयच्छति । उभौ तौ पुण्यकाणी नियतं स्वर्गगामिनौ ।।५।। शंख-भद्रासनं छत्रं वराश्वं वरवाहनं । भूमिदानस्य चिन्हानि फलमेतत् पुरन्दर ।।६।। हर्ता हारयिता भूमेमन्दबुद्धिस्तमोवृतः । सबद्धो वारुणः पाशस्तिर्यग्योनिः प्रजायते ।।७।। स्वदत्तां परदत्तां वा यो हरेच्च वसुन्धरा । षष्टिवर्ष सहस्राणां विष्ठायां जायते कृमिः ।।८।। सुवर्णमन्नं गामेकां भूमेरप्येकमंगुलं । हरन्नरकमाप्नोति यावदाभूत-संप्लवं ॥९॥ त्रीण्याहुरति दानानि गावः पृथ्वी सरस्वती। आसप्तमं पुनंत्येता दोहवाहनिवेदनैः ।१०।।
यानीह दत्तानि पुराननेन्द्रैदानानि धर्मार्थ यशस्कराणि । .. निर्माल्यवान्ति प्रतिमानि तानि को नाम साधुः पुनराददीत ॥११॥ . सर्वानेतान् भाविनः पार्थिवेन्द्रान् भूयो भूयो याचते रामचन्द्रः । सामान्योयं धर्मसेतु पाणां काले काले पालनीयो भवद्भिः ।।१२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org