________________
(156)
जिम ति०- यथा तथा शशी चन्द्रस्तीक्ष्णान् करान् लात्वा यद्यतक्षिष्यत ततो जगति गौर्याश्चन्द्राननाया: 58 मुखकमलेन सह कामपि सदृशतामलप्स्यतेत्यर्थः ॥ ७३
चूडल्लु०- हे मुग्धे कपोले निहितः स्थापित चूटका चूर्णीभविष्यति । किं. (= किम्भूतः) चूटकः । श्वासानलज्वाला 54दग्धः । पुनः 55 किं० । बाष्पसलिलसंसिक्त इत्यर्थः ॥ ७४
___ अब्भड ०-- प्रेमशब्देन प्रिया वाच्या अभेदोपचारात् । यथा प्रेमवतीति उच्यते तथा प्रेमापीत्युच्यते । प्रियमिति शेषः । प्रियमब्भडवंचिउ इति अनुव्रज्य मुत्कालाष्य यावत् द्वौ पादौ निवर्तते तावत् सर्वाशनरिपुसंभवस्य चन्द्रस्य किरणा: परिवृताः प्रसृता इत्यर्थः । सर्वमन्नातीति नंद्यादि इत्यन् प्रत्ययः । सर्वाशनोऽग्निः तस्य रिपुर्जलं तत्संभवश्चन्द्रः ॥ ७५
हियइ०- गौरी स्त्री हृदये शल्यायते 68 । मेघो गगने गर्जति । वर्षारात्री प्रवासिकानां चलितानां विषमं सङ्कटमेतदित्यर्थः ॥ ७६
अम्मि प०- हे अम्ब मम पयोधरौ वज्रमयो स्तः, यो नित्यमेव तस्य मम कान्तस्य सन्मुखौ तिष्ठतः । तस्येति कस्य --- यस्यागे गजघटा: 57 समराङ्गणे भक्त्वा यान्तीत्यर्थः ॥ ७७
पुत्तें जा-- जातेन पुत्रेण को गुणः, मृतेन पुत्रेण कोऽप्यगुण: 58। येन पुत्रेण सतेति गम्यते । या पैतृकी भूमिरपरेणाकाम्यत इत्यर्थः॥ ७८
तं तेत्तुं०- सागरस्य तत्ताव जलं स तावन्मात्रो विस्तारः । परं केवलं तृषाया निवारणं पलमपि नैव स्यादिति शेषः । असारः सन् शब्दायते इत्यर्थः ॥ ७९
जं दिट्ट०- असतीभिर्यत्सोमग्रहणं दृष्टं तन्निःशंक 60 यथा स्यात् तथा हसितम् । हे राहो, प्रियमानुषविक्षोभकरं इष्टपुरुषवियोगकरं मृगाकं गिलगिलेत्यर्थः ॥ ८०
अम्मीए.- स्त्रो कथयति, हे अम्ब खस्थावस्थैः खस्थचित्तैः सुखेन मान'श्चिन्त मते, अहंकारः क्रियते । परं प्रिये दृष्टे सति हलोहलेन व्याकुलत्वेन कः आत्मानं
चेतयतीत्यर्थः ॥ ८१ 58 MS चन्द्राननयाः. 54 MS स्वासानलज्वला.
55 MS पुन. EG : शल्पा यति
52 MS गजधरः, ॐ MS कोपिगुणो. 69 MS निशंकं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org