________________
(155) आयहिं०- हे गौरि, हे पार्वति 48, त्वमम्मिन् जन्मनि अन्यस्मिन्नपि जन्मनि मम कान्तं दद्याः, यो हसन् मत्तानां त्यक्ताङ्कुशानां गजानां संगच्छते – सन्मुखो भवतीत्यर्थः ॥ ६२ - बलि अ०- बलेरभ्यर्थने सोपि मधुमथनो नारायणोऽपि लघुकीभूतः । अथ यदीच्छत वृद्धत्वं बृहत्वं तर्हि परं ददत, कोऽपि मा मार्गयत 49 - इत्यर्थः ॥ ६३
विहि वि०- विधिविनटयतु, ग्रहाः पीडयन्तु, हे प्रिये विषादं मा कुरु । वेषमिव संपदं कर्षामि यदि व्यवसायोऽर्घति स्यात् । तदा संपदः सुलभा इत्यर्थः ॥ ६४
खग्गि वि.- हे प्रिये, खड़ेन विसाधितं लभामहे तस्मिन् देशे यामः । वयं रणदुर्भिक्षेण भग्ना युद्धेन विना न वलामहे न रतिं प्राप्नुमः इत्यर्थः ॥ ६५ .
कुंजर- हे कुंजर मा स्मर सल्लकीः, सरलान् दीर्घान् श्वासान् 50 मा मुञ्च । विधिवशेन ये कवलाः प्राप्तास्तान् चर मानं मा मुञ्चेत्यर्थः ॥ ६६
भमरा०- हे भ्रमर अत्रापि लिंबे तावत् कति दिवसान् विलम्बस्व, यावत् घनपत्रवान् छायाबहुलः कदम्बः प्रफुल्लतीत्यर्थः ॥ ६७
प्रिय ए०- हे प्रिय इदानीं करे सल्लं भलं कुरु, त्वं करवालं मुञ्च, येन कारणेन वराकाः कापालिका योगिनः कपालं लान्तीत्यर्थः ॥ ६८
- दिअहा.- दिवसा वेगै र्यान्ति, मनोरथाः पश्चात् पतन्ति । यदस्ति तन्मान्यते भुज्यते । भविष्यति इति कुर्वन् माख मा तिष्ठेत्यर्थः ॥ ६९
संता भो०-- यः सतो विद्यमानान् भोगान् परिहरति तस्य कान्तस्य बलि पूजां क्रिये । यस्य शीर्ष खल्वाटं तस्य देवेनैव मुण्डितम् । को भावः । यस्य भोगा न सन्ति स तु स्वयमेव स्यजतीत्यर्थः ॥ ७०
___ अइ तुं०-यत् स्तनानां अति तुङ्गत्वं स छेदकः छेहु न तु लाभः । हे सखि, यदि कथमपि त्रुटिवशेन कालविलम्बेन नाथोऽधरे प्रभवति अन्यथा लगत्येव न, स्तनयोरतितुङ्गत्वादित्यर्थः ॥ ७१
' एत्तउं०-- दुर्योधनोक्तिरियम् । शकुनिर्भीम 5 1 मातुल ईयत् त्वा (= उक्त्वा) स्थितः, अहं ततस्तर्हि जाने । पुनदुःशासनो 53 ब्रूत्वा ( = उक्त्वा) स्थितः । यदि एष हरिर्ममाग्रे ब्रूत्वा (= उक्त्वा) तिष्ठतीति शेषः ॥ ७२ 48 Ms पार्वती. 49 Ms मार्गयत. 50 Ms स्वास. 51 Ms शकुनिभीम० 53 Ms पुनदुःशानो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org