SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ (154) तुम्हेहिं400- युष्माभिरस्मामि यत् कृतं तत्बहुकजनेन दृष्टम् । यत् किं कृतं तदाह । तत्तावन्मानः 41 समरभर एकक्षणेन निर्जित इत्यर्थः ॥ ५२ तउ गुण - महीमण्डलेऽन्ये जना यदि उपेत्य तव पार्श्व समागत्य तव गुणसंपदं शिक्षन्ते 42, तव मति शिक्षन्ते 4 3, तवानुत्तरां क्षांति शिक्षन्ते 4, तदा वरमिति गम्यते इत्यर्थः ॥ ५३ अम्हे थो० 4 5- वयं स्तोकाः रिपवस्तु बहुकाः । हे मुग्धे गगनतलं निभालय - पश्य, कति जना ज्योत्स्ना कुर्वन्ति । एकश्चन्द्र एवेत्यर्थः ॥ ५४ . अंबणु०- ये केऽपि परकीयाः पथिका अम्लत्वं 44 स्नेहं लगयित्वा गताः, तेऽपि अवश्यं निश्चितं सुखासिकायां न खपन्ति । यथा वयं तथा तेऽपि इत्यर्थः ॥ ५५ मई जा०- हे प्रिय, मया ज्ञातं - विरहितानां पुरुषाणां कापि धरा अवलम्बनं भवति । कदा - विकाले, सन्ध्याकाले। णवरं केवलं यथा दिनकरः क्षयकाले गतस्तथा मृगाङ्कोऽपि तपतीत्यर्थः ॥ ५६ महु कं0- हे हल्लि हे सखि मम कान्तस्य द्वौ दोषौ स्तः, अनर्थंक मा जल्प । को द्वौ दोषौ तदाह । एकस्तावद्दानं ददतः सतः परं केवलं अहमुद्धरिता । अपरस्तावत् युध्यतः षडमुद्धरितमिति निन्दास्तुतिरित्यर्थः ॥ ५७ जइ भ०-- हे सखि यदि परकीया भग्नास्ततो मम प्रियेण । अथास्माकं संबन्धिनश्चेत् भग्ना4 5स्ततस्तेन मम भर्ना मारितेनैवेत्यर्थः ॥ ५८ __ मुह क०-- तस्याः मुखकबरीबन्धौ वदनवेणीबन्धौ शोभा धरतः । नं, उत्प्रेक्षते - शशिराहू 46 मल्लयुद्धं कुरुतः । तस्याः कुरलाः केशाः शोभन्ते, किं (= किंभूताः), भ्रमरकुलतुलिताः । नं, उत्प्रेक्षते - तिमिरडिम्भा अन्धकारबालका मिलित्वा क्रीडन्तीत्यर्थः ॥ ५९ बप्पीहा०-- हे बप्पीह प्रिय प्रिय इति भणित्वा कियत् रोदिषि । हे हताश, तव जलधरेण मम वल्लभेन द्वयोरपि आशा न पूरितेत्यर्थः ॥ ६० बप्पीहा०- हे बप्पीहक, किं वारंवारं कथनेन । हे निर्पण 4 7, हे निर्लज्ज, विमलजलेन सागरे भृते एकामपि धारां न लभसे - इत्यर्थः ॥ ६१ 40 Ms तुम्हेहि. 41 Ms तत्तावत् मानः . 43 Ms शिक्षयंति. 43 Ms वो. 44 Ms आम्लत्वं, 45 Ms भग्ना. 48 शशिराहु. 41 निघृण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy