________________
EXISTENCE AND NON-EXISTENCE
25
वस्तु स्वलक्षणम् । अस्तित्वनास्तित्वयोधर्मी सामान्यम् । तत्र तादात्म्यलक्षणः सम्बन्धः, सम्बन्धान्तरकल्पनायामनवस्थाप्रसङ्गात्। तन्नैतत्सारम् - जात्यादिमताम् एतत्रसंभवत्येवेति, तदभावे एवासंभवात् । तथा सति नैकान्तेन दर्शनविकल्पाभिधानानां विषयभेदोऽस्ति, कथञ्चित् प्रतिभासभेदेऽपि प्रत्यासन्नेतरपुरुषदर्शनवत् । तथा हि - धूमादयः कृतकत्वादयो वा क्वचित् अग्निसलिलयोर्विनाशेतरयोर्वा साधनेतरस्वभावाभ्यां साक्षात्क्रियेरन्, इतरथा विशेष्यप्रतिपत्तेरयोगात्। अनपेक्षायां तु विरोधः । तस्मात् यत् अभिधेयं तत् विशेष्यम्, यत् वा विशेष्यं तत् अभिलाप्यम्, यत् वा वस्तु तत् सर्वं विधेयप्रतिषेध्यात्मकम्, यथोत्पत्त्यादिः। अपेक्षया हेतुरहेतुश्च साध्येतरयोः, तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि।१९।।
____Comment on verse 19. In this verse Samantabhadra employs another illustration with a view to demonstrating how an entity can be described as both being and nonbeing'; (it is immaterial whether he is said to be demonstrating how an entity is 'both being and nonbeing' or to be demonstrating how it is both being' and 'nonbeing'). Samantabhadra says that the same entity is being' in one respect and 'nonbeing' in another just as the same character might be a proper probans in relation to one probandum and not a proper probans in relation to another, an argument which
d further convince the reader that the Jaina involves himself in no self-contradiction by describing an entity as 'both being and nonbeing'.
Verse 20 शेषभङ्गाश्च नेतव्या यथोक्तनययोगतः । न च कश्चिद् विरोधोऽस्ति मुनीन्द्र! तव शासने ॥२०॥
The remaining forms of assertion (out of the seven formulated earlier) are to be understood in the same manner as those described just before; O Lord of Sages ! there certainly is no self-contradiction in the doctrine taught by you. (20)
स्यादस्ति स्यानास्तीति भङ्गद्वयमुपयुक्तम् । तदपेक्षया शेषत्वं भङ्गत्रयापेक्षं वा । यथोक्तनययोगत इति विशेषणत्वादीनाक्षिपति । तदनभिलाप्यादयोऽपि क्वचित् धर्मिणि प्रत्यनीकस्वभावाविनाभाविनः प्रतीयन्ते, विशेषणत्वादिभ्यः । पूर्वोक्तमुदाहरणम् । न चैवं सति किञ्चित् विप्रतिषिद्धम्, अन्यथैव विरोधात् ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org