________________
EXISTENCE AND NON-EXISTENCE. सहायरूपानुपलब्धेः । तदियं संवृतिः सामान्यसामानाधिकरण्यविशेषणविशेष्यभावादिव्यवहारनिर्भासा बिभ्रतीस्वयमनेकरूपतांप्रतिक्षिपन्तं व्यवस्थापयति। तद्वत्भावान्तराणामनेकान्तात्मकत्वेवास्तवीसाधर्म्यवैधादिस्थितिरविशेषेण विकल्पबुद्धेर्मिथ्यात्वंप्रतिजानन्तं प्रतिक्षिपत्येव । यत् पुनरेतत् अन्यतो व्यावृत्तिरनात्मिकैवेति तन्न, चक्षुरादिज्ञानस्य निर्व्यवसायात्मकस्य स्वयमभूताविशेषात्, निर्णयस्य भावस्वभावासंस्पर्शिनः सर्वथा
वस्तुतत्त्वापरिच्छेदात् इदमित्थमेवेति स्वयमेकान्तानुपपत्तेः । अतोऽयं भावः स्वभावभेदान् विधिप्रतिषेधविषयान् बिभ्राणः प्रत्यक्षतरप्रमाणसमधिगतलक्षणः प्रतीयेत । तस्मात् यत् विशेषणं तत्प्रतिषेध्याविनाभावि क्वचित् धर्मिणि, यथा साधर्म्यं भेदविवक्षया कृतकत्वादौ, विशेषणं चास्तित्वम्, ततः प्रतिषेध्यधर्मप्रतिबन्धि ॥१७||
नास्तित्वं प्रतिषेध्येनाविनाभाव्येकधर्मिणि। विशेषणत्वाद् वैधयं यथाऽभेदविवक्षया ॥१८॥
Likewise, in the body of one and the same entity (possessed-of-attributes) the character 'nonbeing' is invariably accompanied by its opposite (i.e. by the character 'being'), the reason for it being that ‘nonbeing' is a qualifier ; this is just as in the body of one and the same probans the (noticed) character 'absence-in-a-heterologue' is found to be invariably accompanied by its opposite (i.e. by the character 'presence-in-homologues') as soon as the speaker intends to bring to light the similarity obtaining between this probans and certain other objects (viz. its homologues). (18)
भेदाभेदविवक्षयोरवस्तुनिबन्धनत्वे विपर्यासोऽपि किं न स्यात् ? ततः समञ्जसमेतत् - यत् किञ्चित् विशेषणंतत् सर्वमेकत्र प्रतिपक्षधर्माविनाभावि, यथा वैधर्म्यभेदविवक्षया हेतौ, तथा च नास्तित्वं विशेषणम्, अन्यथा व्यवहारसंकरप्रसङ्गात् । न हि स्वेच्छाप्रक्लृप्तधर्मधर्मिव्यवस्थायां परमार्थावतारः स्यात् । तदसमीक्षिततत्त्वार्थैः लोकप्रतीतिवशात् भेदाभेदव्यवस्थितिः तत्त्वप्रतिपत्तये समाश्रीयते इति बालाभिलापकल्पम्, भावस्वभावोपरोधात् ॥१८॥
Comment on Verses 17-18 In these verses Samantabhadra employs two illustrations with a view to demonstrating how an entity can be described as "being' and also as 'nonbeing'. The verse 17 tells us how 'being' quâ the character
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org