________________
22
.
CRITIQUE OF AN AUTHORITY
'both being and nonbeing' and 'indescribable' but also as 'being and indescribable', 'nonbeing and indescribable' and 'both being and nonbeing and indescribable'. It is easy to see what he means even if what he means is not of any vital significance.
17-18 Verses अस्तित्वं प्रतिषेध्येनाविनाभाव्येकधर्मिणि। विशेषणत्वात् साधर्म्यं यथा भेदविवक्षया ॥१७॥
In the body of one and the same entity (-possessed-ofattributes) the character 'being' is invariably accompanied by its opposite (i.e. by the character ‘nonbeing'), the reason for it being that 'being' is a qualifier ; this is just as in the body of one and the same probans the (noticed) character 'presence-in-homologues' is found to be invariably accompanied by its opposite (i.e. by the character 'absence-in-aheterologue') as soon as the speaker intends to bring to light the dissimilarity obtaining between this probans and certain other objects (viz. its heterologues). (17)
सर्वमित्थमनित्थं वेतिप्रतिज्ञायाभिप्रेत्यवाप्रमेयत्वादिहेतूपादानेऽपिव्यतिरेकोऽस्त्येव, प्रमेयत्वस्य वस्तुधर्मत्वात् । खपुष्पादयोऽपि तत्र व्यवहारमिच्छंता प्रमेयाः प्रतिपत्तव्या इति न किञ्चित्प्रमाणम्, प्रमेयाभावस्यापितथाभावानुषङ्गेणाव्यवस्थाप्रसङ्गात्। न चैतविरुद्धम्, स्वलक्षणमनिर्देश्यमित्यादिवत्। दर्शनेस्वाकारमनर्पयतांस्वभावकार्यप्रतिबन्धाभावेप्रमेयत्वं प्रमाणान्तरमवश्यमाकर्षति । ततो विप्रतिषिद्धमेतत् । न च स्वलक्षणमेवान्यापोहः, सर्वथा विधिनियमयोरेकतानत्वासंभवात् । तत्स्वभावभेदाभावे च सङ्केतविशेषानुपपत्तेरभिधानप्रत्ययविशेषोऽपि मा भूत्, तदन्यतरवत् । ततो यावन्ति पररूपाणि प्रत्येकं तावन्तस्ततः परावृत्तिलक्षणा: स्वभावभेदाः प्रतिक्षणं प्रत्येतव्याः । यदि सम्बन्ध्यन्तराणि भावस्वभावभेदकानि न स्युः तदा नित्यत्वेऽपि कस्यचित् सम्बन्ध्यन्तरेषु कादाचित्केषु क्रमशोऽर्थक्रिया नवै विप्रतिषिध्येत। शक्यं हि वक्तुम् - क्रमवर्तीनि कारणानि तत्तन्निर्वर्तनात्मकानि इति नित्यं स्वभावं न वै जहाति, क्षणिकसामग्रीसन्निपतितैकतमवत्। तदेतत् तदा तत्तत् कर्तुं समर्थमेकं स्वभावमविचलितं बिभ्राणं सहकारिकारणानि स्वभावस्याभेदकानि नानाकार्यनिबन्धनानि कादाचित्कानिप्रतीक्षते इति। तदिमेऽर्था विधिप्रतिषेधाभ्यां संप्रतिबद्धान प्रतिबन्धमतिवर्तन्ते वस्तुत एव। ततो न संवृतिः तद्व्यहाराय भेदमावृत्य तिष्ठतीति युक्तम् । तदनेकस्वभावाभावे विनिर्भासासंभवात् आत्मनि परत्र चासंभविनमाकारमादर्शयतीति मुग्धयाते, सर्वत्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org