________________
CRITIQUE OF AN AUTHORITY ble, when it is held out to be possessed of the character 'nonbeing' as also to be indescribable, when it is held out to be possessed of the characters "being' as well as 'nonbeing' as also to be indescribable.
स्वपररूपाद्यपेक्षं सदसदात्मकं वस्तु, न विपर्यासेन, तथादर्शनात् । कल्पयित्वापि तज्जन्मरूपाध्यवसायान् स्वानुपलम्भव्यावृत्तिलक्षणं दर्शनं प्रमाणयितव्यम् । तथाहि - बुद्धिरियं यया प्रत्यासत्त्या कस्यचिदेवाकारमनुकरोति तया तमेवार्थं नियमेनोपलभेत, नान्यथा पारम्पर्यपरिश्रमं परिहरेत् । त्रिलक्षणस्यापि विभ्रमहेतुफलविज्ञानैर्व्यभिचारात्। तदनभ्युपगमे स्वाभ्युपगमासिद्धेः किंसाधनः परमुपालभेत ? तदेकोपलम्भनियमः स्वपरलक्षणाभ्यां भावाभावात्मनं प्रसाधयति । तदभावे न प्रवर्तेत नापि निवर्तेत प्रमाणान्तरवत् । निष्पर्याय भावाभावौअभिधानं नाञ्जसैव विषयीकरोति, शब्दशक्तिस्वाभाव्यात्।वचनसूचनसामर्थ्यविशेषानतिलङ्घनात् । सङ्केतानुविधानेऽपि कर्तृकर्मणोः शक्त्यशक्त्योः अन्यतरव्यपदेशाहत्वात्, अयोदारुवज्रलेखनवत् । अन्यथा अचाक्षुषत्वादयः शब्दादिधर्मा न भवेयुः । अतो यावन्ति पररूपाणि तावन्त्येव प्रत्यात्म स्वभावान्तराणि, तथा परिणामात् । द्रव्यपर्यायौ व्यस्तसमस्तौ समाश्रित्य चरमभङ्गत्रयव्यवस्थानम् । न खलु सर्वात्मना सामान्यं वाच्यम्, तत्प्रतिपत्तेरर्थक्रियां प्रत्यनुपयोगात् । न हि गोत्वं वाहदोहादौ उपयुज्यते । लक्षितलक्षणया वृत्तिः कथञ्चिदतादात्म्ये न भवेत्, सम्बन्धान्तरासिद्धेः कार्मुकादिवत्। तादृशोऽनुपलम्भात् सङ्केतोऽपि न सिद्धयेत् । सतापि तादृशान्यव्यावृत्त्यात्मना भवितव्यम्, अन्यथा विशेषवत् स्वभावहानिप्रसङ्गात् विशेषाणां वा तद्वत् ततो व्यावृत्तेः । न चान्यापोहः सर्वथार्थः शब्दस्य विकल्पस्य वा । साधनवचनेन नित्यत्वसमारोपव्यवच्छेदे स्वलक्षणस्यानित्यत्वासिद्धौ साधनवचनानर्थक्यात्। विकल्पाभिधानयोर्वस्तुसंस्पर्शाभावेस्वलक्षणदर्शनस्याकृतनिर्णयस्य वस्तुसनिघेरविशेषात् किं केन प्रमितं स्यात् ? न हि मिथ्याध्यवसायेन तत्त्वव्यवस्थापनम् । वस्तुदर्शनसमारोपव्यवच्छेदयोः अन्यतरस्यापि स्वतस्तत्त्वापरिनिष्ठितौ इतरेतराश्रयदोषः । समयादर्शिनोऽपि क्वचित् अन्वयबुद्धयभिधानव्यवहारोऽतत्कार्यकारणव्यतिरेकव्यवस्थायां गुडूच्याद्युदाहरणप्रक्तृप्तिं विपर्यासयति ॥१६।।
Comment on verses 14-16 These three verses taken together give a fairly clear idea of the Jaina position on the question of being and nonbeing; (the forthcoming verses 17-23 simply elucidate this very idea and hardly bring to the fore any one that is of basic importance). In these verses Samantabhara offers the precise Jaina definition of four most fundamental ontological notions, viz.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org