SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १२ स्वोपज्ञलघुवृत्तिविभूषितं त्यदादेर्व्यञ्जनादौ स्यादौ परेऽग्वर्ज इदम् अ: स्यात् । आभ्याम् , आंभि: , एषु , आसु । अनगिति किम् ? इमकाभ्याम् । त्यदामित्येव-अतीदम्भ्याम् ॥३६॥ टौस्यनः ।२।१॥३७॥ त्यदां टायामोसि च परेऽनक इदमोऽन: स्यात् । अनेन , अनया , अनयोः । त्यदामित्येव-प्रियेदमा । अनक इत्येव-इमकेन ।।३७|| अयमियं पुंस्त्रियोः सौ ।२।११३८॥ त्यदां सौ परे इदमः पुंस्त्रियोर्यथासंख्यम् अयमियमौ स्याताम् । अयं ना । इयं स्त्री । त्यदामित्येव-अतीदं ना स्त्री वा ॥३८|| दो मः स्यादौ ।२।१॥३९॥ त्यदां स्यादौ परे इदमो दो म: स्यात् । इमौ , परमेमौ , इमकाभ्याम् । त्यदामित्येव-प्रियेदमौ ।।३९।। किमः कस्तसादौ च ।२।१॥४०॥ त्यदां स्यादौ तसादौ च प्रत्यये परे किम: क: स्यात् । क: , साकोऽपि कः । कदा , कर्हि । तसादौ चेति किम् ? किं पश्य , किन्तराम् । त्यदामित्येव-प्रियकिमौ ॥४०॥ आदेरः ।२।१४१॥ द्विशब्दमभिव्याप्य त्यदां स्यादौ तसादौ च परे अ: स्यात् । स्य: , त्यौ , द्वौ , तत: , तदा । त्यदामित्येव-अतितदौ ॥४१।। तः सौ सः ।२।१४२॥ - आद्वेस्त्यदां सौ परे त: स् स्यात् । स्य: , स्या , स: , सा , एषा । त्यदामित्येव-प्रियत्यत् ।।४२।। अदसो दः सेस्तु डौ ।२।१४३॥ त्यदां सौ परे अदसो द: स् स्यात् , सेस्तु डौ । असौ , असकौ , हे असौ ! , हे असकौ ! । त्यदामित्येव-अत्यदाः ।।४३।। असुको वाऽकि ।२।११४४॥ १. एभिः पासं२ J3 ।। २. स स्यात् पा१ खं२ । सः स्यात् खं१,३ J3 ।। ३. स स्यात् पा१ खं२ । सः स्यात् खं१ J3 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy