SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ किम् ? जनो वः पश्यति ||३०|| श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । नित्यमन्वादेशे | २ | १|३१|| किञ्चिद्विधातुं कथितस्य पुनरन्यद्विधातुं कथनमन्वादेश:, तस्मिन् विषये पदात् परयोर्युष्मदस्मदोर्वस्-नसादिर्नित्यं स्यात् । यूयं विनीतास्तद्वो गुरवो मानयन्ति वयं विनीतास्तन्नो गुरवो मानयन्ति धनवांस्त्वमथ त्वा लोको मानयति धनवानहमथो मा लोको मानयति ||३१|| " सपूर्वात् प्रथमान्ताद् वा | २|१|३२|| " ܪ 7 विद्यमानपूर्वपदात् प्रथमान्तात् पदात् परयोर्युष्मदस्मदोरन्वादेशे वस्-नसादिर्वा स्यात् । यूयं विनीतास्तद् गुरवो वो मानयन्ति तद् गुरवो युष्मान् मानयन्ति । वयं विनीतास्तद् गुरवो नो मानयन्ति तद् गुरवोऽस्मान् मानयन्ति । युवां सुशीलौ तज्ज्ञानं वां दीयते, तज्ज्ञानं युवाभ्यां दीयते । आवां सुशीलौ तज्ज्ञानं नौ दीयते तज्ज्ञानमावाभ्यां दीयते ||३२|| , त्यदामेनदेतदो द्वितीया - टौस्यवृत्त्यन्ते | २|१|३३|| ४१ " , त्यदादीनामेतदो द्वितीयायां टायामोसि च परेऽन्वादेशे एनद् स्यात् न तु वृत्त्यन्ते । उद्दिष्टमेतदध्ययनमथो एनदनुजानीत एतकं साधुमावश्यकमध्यापय अथो एनमेव सूत्राणि । अत्र साकः । एतेन रात्रिरधीता अथो एनेनाहरप्यधीतम् । एतयोः शोभनं शीलमथो एनयोर्महती कीर्तिः । त्यदामिति किम् ? संज्ञायामेतदं संगृहाण अथ एतदमध्यापय । अवृत्त्यन्त इति किम् ? अथो परमैतं पश्य ||३३|| इदमः | २|१|३४ ॥ Jain Education International त्यदादेरिदमो द्वितीया-टौसि परेऽन्वादेशे एनत् स्यात्, अवृत्त्यन्ते । उद्दिष्टमिदमध्ययनमथो एनदनुजानीत । अनेन रात्रिरधीता अथो एनेनाहरप्यधीतम् । अनयोः शोभनं शीलम् अथो एनयोर्महती कीर्तिः ||३४|| अद् व्यञ्जने | २|१|३५॥ त्यदादेरिदमो व्यञ्जनादौ स्यादौ परेऽन्वादेशे अः स्यात्, अवृत्त्यन्ते । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम् । इमकेषु अथो एषु । अनग् [२/१/३६ ] इति वक्ष्यमाणादिह साको विधि ः ||३५|| अनक् ।२।१।३६॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy