SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं शरण्या: ! नो रक्षत । जसिति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपद्ये , साधो ! सुविहित ! नोऽथो रक्ष । विशेष्यमिति किम् ? शरण्या: साधवो ! युष्मान् शरणं प्रपद्ये । आमन्त्र्य इति किम् ? आचार्याः ! युष्मान् शरण्या: ! शरणं प्रपद्ये । अर्थात् तद्विशेषणभूत इति किम् ? आचार्याः ! उपाध्यायाः ! युष्मान् शरणं प्रपद्ये ।।२६|| नान्यत् ।२।१॥२७॥ युष्मदस्मद्भ्यां पूर्वं जसन्तादन्यदामन्त्र्यं विशेष्यमामन्त्र्ये तद्विशेषणे परेऽसदिव न स्यात् । साधो सुविहित ! त्वा शरणं प्रपद्ये । साधो सुविहित ! मा रक्ष ॥२७॥ पादायोः ।२।१।२८॥ नियतपरिमाणमात्राक्षरपिण्डः पादः । पदात् परयोः पादस्यादिस्थयोर्युष्मदस्मदोर्वस्-नसादिर्न स्यात् । वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता। स एव नाथो भगवानस्माकं पापनाशनः ॥१॥ पादाद्योरिति किम् ? पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः । भवकूपपतज्जन्तुजातोद्धरणरज्जव: ॥२॥ ॥२८॥ - चा-ऽह-ह-वैवयोगे ।२।२२९॥ एभिर्योगे पदात् परयोर्युष्मदस्मदोर्वस्-नसादिर्न स्यात् । ज्ञानं युष्मांश्च रक्षतु , अस्मांश्च रक्षतु । एवं अह-ह-वा-एवैरप्युदाहार्यम् । योग इति किम् ? ज्ञानञ्च शीलञ्च ते स्वम् ।।२९।। . दृश्यथैश्चिन्तायाम् ।२।१॥३०॥ दृशिना समानार्थैश्चिन्तार्थैर्धातुभियोगे युष्मदस्मदोर्वस्-नसादिर्न स्यात् । जनो युष्मान् सन्दृश्यागत: , जनोऽस्मान् सन्दृश्यागतः । जनो युवां समीक्ष्यागत: , जन आवां समीक्ष्यागतः । जनस्त्वामपेक्षते , जनो मामपेक्षते । सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्थः । दृश्यर्थैरिति किम् ? जनो वो मन्यते । चिन्तायामिति १. पदात् परयोर्युष्म खं१ खंसं२ पासं१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy