________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
त्यदां सौ परे अदसोऽकि सत्यसुको वा स्यात् । असुकः , असकौ ; हे असुक ! हे असकौ ! ॥४४॥
मोऽवर्णस्य ।२।११४५॥ अवर्णान्तस्य त्यदामदसो दो म् स्यात् । अमू नरौ स्त्रियौ कुले वा । अमी , अमूदृश: । अवर्णस्येति किम् ? अद: कुलम् ।।४५।।
वाऽद्रौ ।२।१।४६॥ अदसोऽद्रावन्ते सति दो म् वा स्यात् । अदमुयङ् , अमुद्रयङ् , अमुमुयङ् , अदव्यङ् ॥४६।।
मादुवर्णोऽनु ।२।११४७॥ अदसो म: परस्य वर्णस्य उवर्णः स्यात् , अनु पश्चात् कार्यान्तरेभ्य: । अमुम् , अमू , अमुमुयङ् । अन्विति किम् ? अमुष्मै , अमुष्मिन् ।।४७||
प्रागिनात् ।२।१॥४८॥ अदसो म: परस्य वर्णस्येनादेशात् प्राक् उवर्ण: स्यात् । अमुना । इनादिति किम् ? अमुया ।।४८||
बंहुष्वेरी ।२।११४९॥ बह्वर्थवृत्तेरदसो म: परस्य एत ई स्यात् । अमी , अमीषु । एरिति किम् ? अमू: स्त्रियः । मादित्येव-अमुके ॥४९।।
धातोरिवर्णोवर्णस्येयुक् स्वरे प्रत्यये ।२।११५०॥ धातोरिवर्णोवर्णयो: स्वरादौ प्रत्यये परे यथासंख्यम् इयुवौ स्याताम् । नियौ , लुवौ , अधीयते , लुलुवुः । प्रत्यये इति किम् ? न्यर्थः , ल्वर्थः । नयनम् , नायक इत्यादौ तु परत्वाद् गुण-वृद्धी ।।५०।।
इणः ।२।१५१॥ इणो धातो: स्वरादौ प्रत्यये परे इय् स्यात् । यापवादः । ईयतु: , ईयु: ।।५१||
संयोगात् ।२।११५२॥ धातोरिवर्णोवर्णयोः संयोगात् परयोः स्वरादौ प्रत्यये परे इयुवौ स्याताम् । १. बहुप्वेरीः खं१,३ , खंमू२ ।। २. ईः पार J3 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org