________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
||७||
शेषे लुक् ।२।१८॥ यस्मिन्नायौ कृतौ ततोऽन्य: शेषः , तस्मिन् स्यादौ परे युष्मदस्मदोर्लुक् स्यात् । युष्मभ्यम् , अस्मभ्यम् , अतित्वत् , अतिमत् । शेष इति किम् ? त्वयि , मयि ।।८।।
मोर्वा ।२।११९॥ शेषे स्यादौ परे मान्तयोः युष्मदस्मदोर्मो लुग् वा स्यात् । युवाम् युष्मान् वा आवाम् अस्मान् वाऽऽचक्षाणेभ्यो युष्मभ्यम् , युषभ्यम् ; अस्मभ्यम् , असभ्यम्
||९||
___ मन्तस्य युवाऽऽवौ द्वयोः ।२।१।१०॥ द्वयर्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य स्यादौ परे यथासंख्यम् युव-आव इत्येतौ स्याताम् । युवाम् , आवाम् ; अतियुवाम् , अत्यावाम् ; अतियुवासु , अत्यावासु । मन्तस्येति किम् ? युवयो: आवयोरित्यत्र दस्य यत्वं यथा स्यात्। स्यादावित्येवयुवयोः पुत्रो युष्मत्पुत्रः ।।१०॥
त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् ।२।१।११॥ स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकार्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य यथासंख्यं त्वं-म इत्येतौ स्याताम् । त्वाम् , माम् ; अतित्वाम् , अतिमाम् ; अतित्वासु , अतिमासु ; त्वदीय: , मदीयः , त्वत्पुत्रः , मत्पुत्रः । प्रत्ययोत्तरपदे चेति किम् ? अधियुष्मद् , अध्यस्मद् । एकस्मिन्निति किम् ? युष्माकम् , अस्माकम् ॥११॥
त्वमहं सिना प्राक् चाऽकः ।२।१।१२॥ सिना सह युष्मदस्मदोर्यथासंख्यं त्वम्-अहमौ स्याताम् , तौ चाऽक्प्रसङ्गेऽक: प्रागेव । त्वम् , अहम् ; अतित्वम् , अत्यहम् । प्राक् चाक इति किम् ? त्वकम् , अहकम् ।।१२।।
यूयं वयं जसा ।२।१।१३॥ १. मन्तयोः पार ।। २. दोलुंग् खं१,३ पा१,२,३ ॥ ३. दोर्मन्ता पार ॥ ४. त्वमावित्येतौ खं१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org