________________
३८
स्वोपज्ञलघुवृत्तिविभूषितं
जसा सह युष्मदस्मदोर्यथासंख्यं यूयम्-वयमौ स्याताम् । यूयम् , वयम् ; प्रिययूयम् , प्रियवयम् । प्राक् चाक इत्येव-यूयकम् , वयकम् ॥१३॥
तुभ्यं मह्यं उया।२।१।१४॥ ङया सह युष्मदस्मदोर्यथासंख्यं तुभ्यम्-मह्यमौ स्याताम् । तुभ्यम् , मह्यम् ; प्रियतुभ्यम् , प्रियमह्यम् । प्राक् चाक इत्येव-तुभ्यकम् , मह्यकम् ।।१४।।
तव मम ङसा ।२।१।१५।। ङसा सह युष्मदस्मदोर्यथासंख्यं तव-ममौ स्याताम् । तव , मम ; अतितव , अतिमम । प्राक् चाक इत्येव-तवक , ममक ।।१५।।
अमौ मः ।२।११६॥ युष्मदस्मद्भ्यां परयो: 'अम् औ' इत्येतयोर्म इति स्यात् । त्वाम् , माम् ; अतित्वाम् , अतिमाम् ; युवाम् , आवाम् ; अतियुवाम् , अत्यावाम् ।।१६।।
शसो नः ।२।१।१७॥ युष्मदस्मद्भ्यां परस्य शसो न इति स्यात् । युष्मान् , अस्मान् ; प्रियत्वान् , प्रियमान् ।।१७||
अभ्यम् भ्यसः ।२।१।१८॥ युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यसोऽभ्यम् स्यात् । युष्मभ्यम् , अस्मभ्यम् ; अतियुवभ्यम् , अत्यावभ्यम् ।।१८।।
उसेश्चाऽद् ।२।१।१९॥ युष्मदस्मद्भ्यां परस्य डसेः पञ्चमीभ्यसश्च अद् इति स्यात् । त्वद् , मद् ; अतियुवद् , अत्यावद् ; युष्मद् , अस्मद् ; अतित्वद् , अतिमद् ।।१९।।
आम आकम् ।२।१॥२०॥ युष्मदस्मद्भ्यां परस्य आम आकम् स्यात् । युष्माकम् , अस्माकम् , अतियुवाकम् , अत्यावाकम् ; युष्मानस्मान् वाऽऽचक्षाणानाम्- युष्माकम् , अस्माकम् ।।२०॥
पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे ।२।१।२१॥ बहुत्वविषयया समविभक्त्या सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यं वस्-नसौ वा स्याताम् , तचेत् पदं युष्मदस्मदी चैकस्मिन् वाक्ये स्त: । अन्वादेशे नित्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org