SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ३६ स्वोपज्ञलघुवृत्तिविभूषितं अथ द्वितीयोऽध्यायः [प्रथमः पादः ] त्रि-चतुरस्तिसृ-चतसृ स्यादौ ।२।१।१॥ स्त्रियामिति वर्त्तते । स्यादौ परे स्त्रीवृत्त्योस्त्रि-चतुरोर्यथासङ्ख्यं 'तिसृ चतसृ' इत्येतौ स्याताम् । तिस्रः , चतस्रः , तिसूषु , चतसूषु । प्रियतिसा प्रियचतसा ना। प्रियतिसृ कुलम् । स्यादाविति किम् ? प्रियत्रिक: , प्रियचतुष्कः ।।१।। ऋतो रः स्वरेऽनि ।२।१॥२॥ तिसृ-चतसृस्थस्य ऋत: स्वरादौ स्यादौ परे र: स्यात् , अनि नविषयादन्यत्र । तिस्रः , चतस्रः , प्रियतिस्रौ , प्रियचतस्रौ । स्वर इति किम् ? तिसृभिः , चतसृभिः । अनीति किम् ? तिसृणाम् , चतसृणाम् ।।२।। जराया जरस् वा ।२।१॥३॥ स्वरादौ स्यादौ परे जराया जरस् वा स्यात् । जरसौ , जरस: । जरे , जरा: । अतिजरसौ , अतिजरौ । अतिजरसम् , अतिजरम् कुलम् ।।३।। अपोऽद् भे।२।११४॥ भादौ स्यादौ परे अपोऽद् स्यात् । अद्भिः , स्वद्भ्याम् । भ इति किम् ? अप्सु ॥४॥ आ रायो व्यञ्जने ।२।११५॥ व्यञ्जनादौ स्यादौ परे रैशब्दस्य आ: स्यात् । रा: , रासु , अतिराभ्याम् कुलाभ्याम् । व्यञ्जन इति किम् ? रायः ।।५।। युष्मदस्मदोः ।२।११६॥ व्यञ्जनादौ स्यादौ परे युष्मदस्मदोरा: स्यात् । त्वाम् , माम् , अतित्वाम् , अतिमाम् , युष्मासु , अस्मासु ।।६।। टायोसि यः ।२।११७॥ टाङ्योस्सु परेषु युष्मदस्मदोर्य: स्यात् । त्वया , मया ; अतियुवया, अत्यावया ; त्वयि , मयि ; युवयोः , आवयोः । टाङ्योसीति किम् ? त्वत् , मत् १. इत: परं 'प्रियत्रि कुलम् प्रियचतसृ कुलम्' इत्यधिकम् J3 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy