________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
इन् ङीस्वरे लुक् ।।४।७९॥ पथ्यादीनां नान्तानां ड्यामघुट्स्वरादौ च स्यादौ परे इन् लुक् स्यात् । सुपथी स्त्री कुले वा । पथ: । सुमथी स्त्री कुले वा । मथः । अनुभुक्षी सेना कुले वा । ऋभुक्षः ॥७९॥
वोशनसो नश्चामन्त्र्ये सौ ।११४८०॥ आमन्त्र्यवृत्तेरुशनसो न-लुकौ सौ परे वा स्याताम् । हे उशनन् ! , हे उशन ! , हे उशन: ! । आमन्त्र्य इति किम् ? उशना ।।८०||
उतोऽनडुच्चतुरो वः ।।४।८१॥ आमन्त्र्यवृत्त्योरनडुच्चतुरोरुत: सौ परे वः स्यात् । हे अनड्वन् ! । हे अतिचत्व: ! ||८||
वाः शेषे ।१।४।८२॥ आमन्त्र्यविहितात् सेरन्यो घुट् शेषस्तस्मिन्परे अनडुच्चतुरोरुतो वा: स्यात् । अनड्वान् , अनड्वाही । प्रियचत्वा: , प्रियचत्वारौ । शेष इति किम् ? हे अनड्वन् ! । हे प्रियचत्व: ! ।। ८२||
सख्युरितोऽशावैत् ।।४।८३॥ सख्युरिदन्तस्य शिवर्जे शेषे घुटि परे ऐत् स्यात् । सखायौ , सखायः , संखायम् । इत इति किम् ? सख्यौ स्त्रियौ । अशाविति किम् ? अतिसखीनि । शेष इत्येव-हे सखे ! ॥८३।।
__ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः ।१।४।८४॥ ऋदन्तादुशनसादेः सख्युरितश्च परस्य शेषस्य सेर्डाः स्यात्। पिता , अतिपिता , कर्ता , उशना , पुरुदंशा , अनेहा , सखा ।।८४।।
नि दीर्घः ।१।४।८५॥ शेषे घुटि परे यो नस्तस्मिन् परे स्वरस्य दीर्घः स्यात् । राजा , राजानौ । वनानि । कर्तृणि । शेष इत्येव-हे राजन् ! ॥८५।।
स्महतोः श४॥८६॥ १. सखायम् खं२ विना नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org