SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ३४ स्वोपज्ञलघुवृत्तिविभूषितं न्सन्तः । नहतश्च स्वरस्य शेषे घुटि परे दीर्घ: स्यात् । श्रेयान् , श्रेयांसौ । महान् , महान्तौ ।।८६।। इन्-हन्-पूषाऽर्यम्णः शिस्योः ।१।४।८७॥ इन्नन्तस्य हनादेश्च स्वरस्य शिस्योरेव परयोर्दीर्घः स्यात् । दण्डीनि , स्रग्वीणि , दण्डी , स्रग्वी । भ्रूणहानि , भ्रूणहा । बहुपूषाणि , पूषा । स्वर्यमाणि , अर्यमा । शिस्योरेवेति किम् ? दण्डिनौ , वृत्रहणौ ,पूषणौ , अर्यमणौ ।।८७।। अपः ।।४।८८॥ अप: स्वरस्य शेषे घुटि परे दीर्घ: स्यात् । आप: , स्वापौ ।।८८|| नि वा ।१।४।८९॥ अप: स्वरस्य नागमे सति पुटि परे दीर्घो वा स्यात् । स्वाम्पि , स्वम्पि । बह्वाम्पि , बह्वम्पि ।।८९।।। अभ्वादेरत्वसः सौ ।१।४।९०॥ अत्वन्तस्याऽसन्तस्य च भ्वादिवर्जस्य शेषे सौ परे दीर्घ: स्यात् । भवान् , यवमान् । गोमन्तं स्थूलशिरसं वेच्छन् गोमान् , स्थूलशिराः । अभ्वादेरिति किम् ? पिण्डग्रः ॥९०॥ क्रुशस्तुनस्तृच पुंसि ।।४।९१॥ क्रुशो यस्तुन् तस्य शेषे घुटि परे तृच् स्यात् पुंसि । क्रोष्टा , क्रोष्टारौ । पुंसीति किम् ? कृशक्रोष्टूनि वनानि ।।९१।। टादौ स्वरे वा ।१।४।९२॥ टादौ स्वरादौ परे क्रुशस्तुनस्तृज् वा स्यात् पुंसि । क्रोष्ट्रा , क्रोष्टुना ; क्रोष्ट्रो: , क्रोष्ट्वोः ॥९२॥ स्त्रियाम् ।।४।९३॥ क्रुश: परस्य तुनः स्त्रीवृत्तेस्तृच् स्यात् निर्निमित्त एव । क्रोष्ट्री , क्रोष्ट्रयौ , क्रोष्ट्रीभ्याम् । पञ्चक्रोष्टभी रथैः ।।१३।। १. शेपे पा२,३, खंमू३, पामू१ मध्ये नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy