________________
स्वोपज्ञलघुवृत्तिविभूषितं
युजूंपी योगे [हैमधा० १४७६] इत्यस्याऽसमासे धुडन्तस्य धुट: प्राक् घुटि नोऽन्त: स्यात् । युङ् , युऔ । युञ्जि कुलानि । बहुयुङ् । असमास इति किम् ? अश्वयुक् । युज्र इति किम् ? युजिंच समाधौ हैमधा० १२५४] युजमा पन्ना: ॥७१||
अनडुहः सौ।१।४।७२॥ अनडुहो धुडन्तस्य धुट: प्राक् सौ परे नोऽन्त: स्यात् । अनड्वान् , प्रियानड्वान् ॥७२।।
सोः पुमन्स् ।१।४।७३॥ पुंसो: पुमन्स् घुटि स्यात् । पुमान् । प्रियपुमान् , प्रियपुमांसि ॥७३।।
ओत औ।१४/७४॥ ओतो घुटि परे औ: स्यात् । गौः , गावौ । द्यौः , द्यावौ । प्रियद्यावौ । ओत इति किम् ? चित्रगू ॥७४।।
आ अम्-शसोऽता ।१।४।७५॥ अतोऽम्-शसोरता सह आ: स्यात् । गाम् । सुगाम् । गाः । सुगाः । द्याम् । अतिद्याम् । द्या: । सुधाः ॥७५।।
पथिन्-मथिनृभुक्षः सौ ।११४७६॥ एषां नान्तानामन्तस्य सौ परे आ: स्यात् । पन्थाः , हे पन्थाः ! । मन्थाः । ऋभुक्षाः । नान्तनिर्देशादिह न स्यात्-पन्थानमिच्छन् पथीः ॥७६।।
एः ।।४।७७॥ पथ्यादीनां नान्तानामितो घुटि परे आ: स्यात् । पन्थाः , पन्थानौ , पन्थान: , पन्थानम् , सुपन्थानि कुलानि । मन्थाः । ऋभुक्षाः । नान्तनिर्देशाद् एरभावाचेह न स्यात्-पथ्यौ , पथ्यः ।।७७||
थो न्थ् ।१।४।७८॥ पथिन्-मथिनोर्नान्तयोस्थस्य घुटि परे न्थ् स्यात् । तथैवोदाहृतम् ॥७८॥ १. पन्ना मुनयः पार खंसं२ बृहद्वृत्तौ च ।। २. सुगाः खं१ पासं१ J3 विना नास्ति ।। ३. नन्ताना खं१ ।। ४. मन्थाः हे मन्थाः ऋभुक्षाः हे ऋभुक्षाः पा१ J3 ।। ५. मिच्छति खं१,३ । मिच्छतीति J3 ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org