SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । अनामस्वरे नोऽन्तः ।१।४।६४॥ नाम्यन्तस्य नपुंसकस्याऽऽम्वर्जे स्यादौ स्वरे परे नोऽन्तः स्यात् । वारिणी , वारिणः । कर्तृणी , प्रियतिसृण: । अनामिति किम् ? वारीणाम् । स्वर इति किम् ? हे वारे ! । स्यादावित्येव-तौम्बुरवं चूर्णम् ॥६४।। स्वराच्छौ ।।४॥६५॥ शौ परे स्वरान्तान्नपुंसकात् परो नोऽन्त: स्यात् । कुण्डानि । स्वरादिति किम् ? चत्वारि ||६५।। धुटां प्राक् ।११४॥६६॥ स्वरात् परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राग् नोऽन्त: स्यात् । पयांसि , अतिजरांसि , काष्ठत्वति । स्वरादित्येव-गोमन्ति ॥६६।। र्लो वा ।।४।६७॥ र-लाभ्यां परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ परे धुटः प्राक् नोऽन्तो वा स्यात् । बहूजि , बहूर्जि । सुवल्ङ्गि , सुवलिग । र्ल इति किम् ? का ष्ठत्वति । धुटामित्येव-सुफुल्लि ।।६७|| घुटि ।१।४६८॥ निमित्तविशेषोपादानं विना आ पादपरिसमाप्तेर्यत् कार्यं वक्ष्यते तद् घुटि वेदितव्यम् ।।६८॥ अचः ।।४।६९॥ अञ्चतेर्धातोधुंडन्तस्य धुटः प्राक् नोऽन्तो घुटि स्यात् । प्राङ् , अतिप्राङ् , प्राञ्चौ । प्राञ्चि कुलानि ।।६९।। ऋदुदितः ।१।४।७०॥ दुदितो धुडन्तस्य घुटि परे धुट: प्राक् स्वरात् परो नोऽन्तः स्यात् । कुर्वन् , विद्वान् , गोमान् । घुटीत्येव-गोमता ॥७०।। युज्रोऽसमासे ।।४।७१॥ १. कर्तृणी कर्तृणः प्रिय खं१ ।। २. काष्ठतति J3 वृहद्वृत्तौ च । “तक्षौ त्वक्षौ तनूकरणे" हैमधा० ५७१-५७२ ।। ३. काष्ठतति खं१,२ पार,३ J3 ।। ४. गोमान् खं३ पा१,३ मध्ये नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy