________________
३०
स्वोपज्ञलघुवृत्तिविभूषितं
- शसोः शिः स्यात् । कुण्डानि पयांसि ||५५ || औरी |१|४|५६ ॥
।
नपुंसकस्य जस्-
1
नपुंसकस्य औरी: स्यात् । कुण्डे । पयसी ||५६ || अतः स्यमोऽम् | १|४|५७॥
अदन्तस्य नपुंसकस्य स्यमोरम् स्यात् । कुण्डम्, हे कुण्ड ! ||५७|| पञ्चतोऽन्यादेरनेकतरस्य दः | १|४|५८ ||
पञ्चपरिमाणस्य नपुंसकस्याऽन्यादेः स्यमोर्दः स्यात्, एकतरवर्जम् । अन्यत् , अन्यतरत्, इतरत्, कतरत्, कतमत् । अनेकतरस्येति किम् ? एकतरम्
||५८||
अनतो
लुप् । १।४।५९॥
अनकारान्तस्य नपुंसकस्य स्यमोर्लुप् स्यात् । कर्तृ, पयः ॥ ५९ ॥ जरसो वा | १|४|६०॥
जरसन्तस्य नपुंसकस्य स्यमोर्लुब् वा स्यात् । अतिजर:, अतिजरसम् ॥६०॥ नामिनो लुगू वा | १|४|६१॥ नाम्यन्तस्य नपुंसकस्य स्यमोर्लुग्वा स्यात् । हे वारे !
,
प्रियति प्रिय कुलम् ||६१||
,
Jain Education International
वाsन्यतः पुमांष्टादौ स्वरे | १|४|६२ |
अन्यतो विशेष्यवशान्नपुंसको नाम्यन्तष्टादौ स्वरे परे पुंवद् वा स्यात् । ग्रामण्या ग्रामणिना कुलेन ; कर्त्री: कर्तृणोः कुलयोः । अन्यत इति किम् ? पीलुने फलाय | टादाविति किम् ? शुचिनी कुले । नपुंसकस्येत्येव - कल्याण्यै स्त्रियै ॥ ६२|| दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन् | १|४|६३ ||
एषां नपुंसकानां नाम्यन्तानामन्तस्य टादौ स्वरे परे अन् स्यात् । दध्ना, अतिदध्ना । अस्थ्ना, अत्यस्थ्ना । सक्थ्ना, अतिसक्थ्ना । अक्ष्णा, अत्यक्ष्णा ||६३॥
हे वारि ! |
१. औरीः केषुचिल्लघुवृत्त्यादर्शेषु ॥ २. नपुंसक इत्येव J3 बृहद्वृत्तौ च । “वान्यत इत्यादि | नामि इति वर्तते तद् यथा नपुंसकस्य विशेषणं तथाऽन्यत इत्यपि तच्च षष्ठ्यन्तमपि अर्थवशात् प्रथमान्ततया विपरिणम्यत इत्याह यो नाम्यन्त इत्यादि'' इति शब्दमहार्णवन्यासे ||
"
For Private & Personal Use Only
www.jainelibrary.org