SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । दी? नाम्यतिसृ-चतसृ-प्रः ।।४।४७॥ तिसृ-चतसृ-ष-रान्तवर्जस्य समानस्य नामि परे दीर्घः स्यात् । वनानाम् , मुनीनाम् , साधूनाम् , पितॄणाम् । अतिसृ-चतसृ-प्र इति किम् ? तिसृणाम् , चतसृणाम् , षण्णाम् , चतुर्णाम् ।।४७|| नुर्वा ॥१॥४॥४८॥ नु: समानस्य नामि परे दीर्घो वा स्यात् । नृणाम् , नृणाम् ॥४८।। शसोऽता सश्च नः पुंसि ।।४।४९॥ शसोऽता सह पूर्वसमानस्य दीर्घः स्यात् , तत्सन्नियोगे च पुंसि शस: सो नः । देवान् , मुनीन् , वातप्रमीन् , साधून् , हूहून् , पितॄन् । पुंसीति किम् ? शाला: ।।४९।। संख्या-साय-वेरह्नस्याऽहन् ङौ वा ।।४।५०॥ संख्यावाचिभ्य: साय-विभ्यां च परस्याऽहस्य ङौ परेऽहन् वा स्यात् । द्वयह्नि , व्यहनि , द्वयते । सायाह्नि , सायाहनि , सायाह्ने । व्यह्नि , व्यहनि , व्यते ॥५०॥ निय आम् ।।४॥५१॥ निय: परस्य डेराम् स्यात् । नियाम् । ग्रामण्याम् ।।५१|| वाष्टन आः स्यादौ ।१॥४॥५२॥ अष्टनः स्यादौ परे आ वा स्यात् । अष्टाभिः , अष्टभिः । प्रियाष्टा: , प्रियाष्टा ।। ||५२।। अष्ट औ जस्-शसोः ।११४५३॥ अष्टनः कृताऽऽत्वस्य जस्-शसोरौं स्यात् । अष्टौ , अष्टौ ।।५३|| . डति-ष्णः संख्याया लुप् ।१।४।५४॥ डति-ष-नान्तानां संख्यानां जस्-शसोलुप् स्यात् । कति , कति । षट् , षट् । पञ्च , पञ्च ।।५४॥ नपुंसकस्य शिः ।।४५५॥ १. रौः खं१ पार J3 || २. संख्यावाचिनां पा१ J3 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy