SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ २८ स्वोपज्ञलघुवृत्तिविभूषितं अझै च ।१४।३९॥ ऋतो डौ घुटि च परे अर् स्यात् । नरि , नरम् ।।३९।। मातुर्मातः पुत्रेऽर्हे सिनाऽऽमन्त्र्ये ।।४।४०॥ मातुरामन्त्र्ये पुत्रे वर्तमानस्य सिना सह मात: स्यात् , अर्हे प्रशंसायाम् । हे गार्गीमात ! । पुत्र इति किम् ? हे मात: ! , हे गार्गीमातृके वत्से ! । अर्ह इति किम् ? अरे गार्गीमातृक ! ॥४०।। ह्रस्वस्य गुणः ।।४॥४१॥ आमन्त्र्यार्थवृत्तेह्रस्वान्तस्य सिना सह गुण: स्यात् । हे पित: ! , हे मुने ! ॥४१॥ एदापः ।।४।४२॥ आमन्त्र्यार्थवृत्तेराबन्तस्य सिना सह एत् स्यात् । हे माले ! , हे बहुराजे ! ॥४२॥ नित्यदिन-द्विस्वराऽम्बार्थस्य ह्रस्वः ।।४।४३॥ नित्यं दिद् दै-दास्-दास्-दामादेशो येभ्यस्तेषां द्विस्वराम्बार्थानां चाऽऽबन्तानामामन्त्र्यवृत्तीनां सिना सह ह्रस्व: स्यात् । हे स्त्रि ! हे लक्ष्मि ! हे श्वश्रु ! हे वधु ! हे अम्ब ! हे अक्क ! । नित्यदिदिति किम् ? हे हुहू: !। द्विस्वरेति किम् ? हे अम्बाडे ! । आप इत्येव-हे मातः ! ॥४३।। अदेतः स्यमोर्लुक् ।१।४।४४॥ अदन्ताद् एदन्ताच आमन्त्र्यवृत्तेः परस्य सेरमश्च लुक् स्यात् । हे देव ! , हे उपकुम्भ ! , हे अतिहे ! ॥४४|| दीर्घयाब्-व्यञ्जनात् सेः ।।४।४५॥ दीर्घङयाबन्ताभ्यां व्यञ्जनाच्च परस्य सेर्लुक् स्यात् । नदी । माला । राजा । दीर्घति किम् ? निष्कौशाम्बिः , अतिखट्वः ।।४५।। समानादमोऽतः ।।४।४६॥ समानात् परस्याऽमोऽस्य लुक् स्यात् । देवम् , मालाम् , मुनिम् , नदीम् , साधुम् , वधूम् ।।४६।। १. वृत्तेः विहितस्य सेरमश्च खं१,३, पार ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy