________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
आमो नाम् वा ।।४॥३१॥ इयुवोः स्थानिभ्यां स्त्रीदूदन्ताभ्यां परस्य आमो नाम् वा स्यात् , न तु स्त्रिया: । श्रीणाम् , श्रियाम् । भ्रूणाम् , भ्रुवाम् । अतिश्रीणाम् , अतिश्रियाम् , अतिभ्रूणाम् अतिभ्रुवाम् नृणां स्त्रीणां वा । इयुव इत्येव-प्रधीनाम् ॥३१॥
ह्रस्वाऽऽपश्च ।१॥४॥३२॥ ह्रस्वान्तादाबन्तात् स्त्रीदूदन्ताच्च परस्याऽऽमो नाम् स्यात् । देवानाम् , मालानाम् , स्त्रीणाम् , वधूनाम् ॥३२॥
__संख्यानां र्णाम् ।।४।३३॥ र-ष-नान्तानां संख्यावाचिनामामो नाम् स्यात् । चतुर्णाम् , षण्णाम् , पञ्चानाम् , अष्टानाम् ।।३३।।
स्त्रयः ।।४॥३४॥ आम: सम्बन्धिनस्रेस्त्रय: स्यात् । त्रयाणाम् , परमत्रयाणाम् ||३४||
एदोद्भ्यां ङसि-ङसो रः ।१।४।३५॥ एदोभ्यां परयोः प्रत्येकं ङसि-डसो र: स्यात् । मुनेः , मुनेः । धेनो: , धेनो: । गोः , गो: । द्यो: , द्यो: ।।३।।
खि-ति-खी-तीय उर् ।१।४।३६॥ "खि-ति-खी-तीसम्बन्धिनो यात् परयोर्डसिङसोरुर् स्यात् । सख्युः , सख्युः । पत्युः , पत्युः । सखायं पतिं चेच्छतः सख्युः , सख्युः , पत्युः , पत्युः । य इति किम् ? अतिसखेः , अधिपते: ।।३६।।
ऋतो डुर् ।१।४।३७॥ .. त्रस्त: परयो: डसि-डसोडुर् स्यात् । पितुः , पितुः ॥३७|| तृ-स्वसृ-नप्त-नेष्ट-त्वष्ट-क्षत्तृ-होतृ-पोतृ-प्रशास्त्रो घुट्यार ।१।४।३८॥
तृच-तृन्नन्तस्य स्वस्रादीनां च ऋतो घुटि परे आर् स्यात् । कर्तारम् , कतारी , कर्तारः । स्वसारम् , नप्तारम् , नेष्टारम् , त्वष्टारम् , क्षत्तारम् , होतारम् , पोतारम् , प्रशास्तारम् । घुटीति किम् ? कर्तृ कुलं पश्य ।।३८१: १. इयुव्स्थानिभ्यां पार ।। २. पञ्चानां सप्तानाम् अष्टानाम् खं३ ॥ ३. परमत्रयाणाम् खं१,३ पा१,३ मध्ये नास्ति ।। ४. तीनां सम्व खं१॥ ५. कर्तारः कर्तारौ कर्तारम् पा१ ।।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org