________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
२३
[चतुर्थः पादः ] अत आः स्यादौ जस्-भ्याम्-ये ।१।४।१॥ स्यादौ जसि भ्यामि ये च परेऽकारस्य आ: स्यात् । देवा: , आभ्याम् , सुखाय । स्यादाविति किम् ? बाणान् जस्यतीति क्विप्-बाणज: ॥१॥
भिस ऐस् ।१।४।२॥ आत् परस्य स्यादेर्भिस ऐस् स्यात् । देवैः । ऐस्करणाद् अतिजरसैः ।।२।।
इदमदसोऽक्येव ।१॥४॥३॥ इदमदसोरक्येव सति आत् परस्य भिस ऐस् स्यात् । इमकैः , अमुकैः । अक्येवेति किम् ? एभिः , अमीभिः ।।३।।
ए बहुस्भोसि ।१।४।४॥ बह्वर्थे स्यादौ सादौ भादौ ओसि च परे अत एत् स्यात् । एषु , एभिः देवयोः ॥४||
___टा-ङसोरिन-स्यौ ।।४।५॥ आत् परयोष्टा-ङसोर्यथासंख्यम् इन-स्यौ स्याताम् । तेन , यस्य ||५||
डे-ङस्योर्या-ऽऽतौ ।।४।६॥ आत् परस्य डेर्डसेश्च यथासंख्यम् य आच्च स्याताम् । देवाय , देवात् ।।६।।
सर्वादेः स्मै-स्मातौ ।१।४।७॥ सर्वादेरदन्तस्य सम्बन्धिनो-डस्योर्यथासंख्यम् स्मै-स्मातौ स्याताम् । सर्वस्मै , सर्वस्मात् । सर्व , विश्व , उभ , उभयट् , अन्य , अन्यतर , इतर , डतर , डतम , त्व , त्वत् , नेम, सम-सिमौ सर्वार्थौ , पूर्व-परा-ऽवर-दक्षिणोत्तराऽपरा-ऽधराणि व्यवस्थायाम् , स्वम् अज्ञाति-धनाख्यायाम् , अन्तरं बहिर्योगोपसंव्यानयोरपुरि , त्यद् , तद् , यद् , अदस् , इदम् , एतद् , एक , द्वि , युष्मद् , भवतु , अस्मद् , किम् , इत्यसंज्ञायां सर्वादिः ।।७।। १. जस्यति स्विप खं२,३ ।। २. स्मात् विश्वस्मै विश्वस्मात् पा१ खं१ ।। ३. युस्मद् अस्मद् भवतु पा३ । सिद्धहेमचन्द्रशब्दानुशासनबृहद्वृत्ति-मध्यमवृत्ती मलयगिरिशब्दानुशासनं च विना पाणिनीय-शाकटायन-जैनेन्द्र-चान्द्रव्याकरणेषु अपि 'युष्मद् अस्मद् भवत्' इत्येव क्रम इति ध्येयम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org