________________
स्वोपज्ञलघुवृत्तिविभूषितं पदान्तादृवर्गादनाम्-नगरी-नवतेः ।१।३।६३॥ पदान्तस्थाट्टवर्गात् परस्य नाम्-नगरी-नवतिवर्जस्थस्य तवर्गस्य सस्य च टवर्गपौ न स्याताम् । षट्तयम् , षण्नया: , षट्सु । अनाम्-नगरी-नवतेरिति किम् ? षण्णाम् , षण्णगरी , षण्णवतिः ॥६३।।
षि तवर्गस्य ।।३।६४॥ पदान्तस्थस्य तवर्गस्य षे परे टवर्गो न स्यात् । तीर्थकृत् षोडश: शान्ति: ॥६४||
लि लौ ।११३॥६५॥ पदान्तस्थस्य तवर्गस्य ले परे लौ स्याताम् । तल्लूनम् , भवाल्लँनाति ॥६५॥
[इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] प्रथमस्याध्यायस्य तृतीयः पादः समाप्त: ।।१।३।।
चक्रे श्रीमूलराजेन नवः कोऽपि यशोऽर्णवः । परकीर्तिस्रवन्तीनां न प्रवेशमदत्त यः ।।३।।
१. समाप्तः खं३ विना नास्ति ।। २. प्रा० पा१-२ मध्ये एव बृहद्वृत्तौ च श्लोकोऽयमस्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org