SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । शिट्यघोषात् ।१॥३॥५५॥ अघोषात् परे शिटि परत: पदान्तस्थस्य रस्य विसर्ग एव स्यात् । पुरुषः त्सरुक: , सर्पिः प्साति , वास: क्षौमम् , अद्भिः प्सातम् ।।५५॥ व्यत्यये लुग् वा ।१॥३॥५६॥ शिट: परोऽघोष इति व्यत्ययस्तस्मिन्सति पदान्तस्थस्य रस्य लुग् वा स्यात् । चक्षु श्च्योतति , चक्षुः श्च्योतति ।।५६।। अरोः सुपि रः ।१।३।५७॥ रोरन्यस्य रस्य सुपि परे र एव स्यात् । गीर्षु , धूर्षु । अरोरिति किम् ? पयस्सु ।।५७|| वाऽहर्पत्यादयः ।१।३।५८॥ अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा स्युः । अहर्पति: , अह:पति: ; गीपतिः , गी:पतिः ; प्रचेता राजन् ! , प्रचेतो राजन् ! ||५८|| शिट्याद्यस्य द्वितीयो वा ।१।३।५९॥ प्रथमस्य शिटि परे द्वितीयो वा स्यात् । ख्षीरम् , क्षीरम् । अफ्सरा: , अप्सरा: ।।५९।। तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां योगे च-टवौ ।।३।६०॥ तवर्गस्य श-चवर्गाभ्यां ष-टवर्गाभ्यां च योगे यथासंख्यं चवर्ग-टवर्गौ स्याताम् । तच शेते , भवाञ् शेते , तच्चारु , तंञकारे , पेष्टा , पूष्णः , तट्टक्के , तण्णकारे , ईट्टे ॥६०।। सस्य श-पौ ।।३।६१॥ सस्य श्ववर्ग-ष्टवर्गाभ्यां योगे यथासंख्यं श-षौ स्याताम् । चवर्गेण-श्च्योतति , वृश्चति । षेण- दोष्षु । टवर्गेण- पाक्षि ॥६१|| न शात् ।१।३।६२॥ शात् परस्य तवर्गस्य चवर्गो न स्यात् । अश्नाति , प्रश्नः ||६२।। १. तञकारेण खं१ पा३ J3 || २. तण्णकारेण खं१ ।। --- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy