SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ २४ स्वोपज्ञलघुवृत्तिविभूषितं Dः स्मिन् ॥१४॥८॥ सर्वादेरदन्तस्य डे: स्मिन् स्यात् । सर्वस्मिन् ।।८।। जस इः।१।४।९॥ सर्वादेरदन्तस्य जस इ: स्यात् । सर्वे ।।९।। नेमा-ऽर्द्ध-प्रथम-चरम-तया-ऽया-ऽल्प-कतिपयस्य वा ।१।४।१०॥ नेमादीनि नामानि , तयायौ प्रत्ययौ , तेषामदन्तानां जस इर्वा स्यात् । नेमे , नेमा: । अर्द्ध , अर्द्धाः । प्रथमे , प्रथमा: । चरमे , चरमा: । द्वितये , द्वितया: । त्रये , त्रया: । अल्पे , अल्पा: । कतिपये , कतिपया: ॥१०॥ द्वन्द्वे वा ।।४।११॥ द्वन्द्वसमासस्थस्याऽदन्तस्य सर्वादेर्जस इर्वा स्यात् । पूर्वोत्तरे , पूर्वोत्तराः॥१।। न सर्वादिः ।१।४।१२॥ द्वन्द्वे सर्वादिः सर्वादिर्न स्यात् । पूर्वापराय , पूर्वापरात् , पूर्वापरे । कतरकतमानाम् , कतरकतमका: ।।१२।। तृतीयान्तात् पूर्वा-ऽवरं योगे ।।४।१३॥ तृतीयान्तात् परौ पूर्वा-ऽवरौ योगे सम्बन्धे सति सर्वादी न स्याताम् । मासेन पूर्वाय , मासपूर्वाय । दिनेनाऽवराय , दिनावराय । दिनेनाऽवरा: , दिनाऽवरा: । तृतीयान्तादिति किम् ? पूर्वस्मै मासेन ।।१३।। तीयं ङित्कार्ये वा ।।४।१४॥ तीयान्तं नाम डे-ङसि-डस्-डीनां कार्ये सर्वादिर्वा स्यात् । द्वितीयस्मै , द्वितीयाय । द्वितीयस्यै , द्वितीयायै । ङित्कार्य इति किम् ? द्वितीयकाय ॥१४|| अवर्णस्याऽऽमः साम् ।१।४।१५॥ अवर्णान्तस्य सर्वादेराम: साम् स्यात् । सर्वेषाम् , विश्वासाम् ।।१५|| __ नवभ्यः पूर्वेभ्य इ-स्मात्-स्मिन् वा ।१।४।१६।। पूर्वादिभ्यो नवभ्यो ये इ-स्मात्-स्मिनो यथास्थानमुक्तास्ते वा स्युः । पूर्वे १. सर्वादि वा खं२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy