SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ १८ स्वोपज्ञलघुवृत्तिविभूषितं पदान्तस्थाद् दीर्घस्थात् प्लुतात् परस्य छस्य द्वे रूपे वा स्याताम् । आगच्छ भो इन्द्रभूते ३ च्छत्रमानय , पक्षे छत्रमानय ।।२९।। स्वरेभ्यः ।।३॥३०॥ स्वरात् परस्य छस्य द्वे रूपे स्याताम् । इच्छति , गच्छति ॥३०॥ दिर्ह-स्वरस्याऽनु नवा ।११३॥३१॥ स्वरात् पराभ्यां रहाभ्यां परस्य र-ह-स्वरवर्जस्य वर्णस्य द्वे रूपे वा स्याताम् , अनु कार्यान्तरात् पश्चात् । अर्कः , अर्कः । ब्रह्मम , ब्रह्म । अर्ह-स्वरस्येति किम् ? पद्मह्रदः , अर्हः , करः । स्वरेभ्य इत्येव-अभ्रयते । अन्विति किम् ? प्रोण्णुनाव ।।३१।। अदीर्घाद विरामैकव्यञ्जने ।।३॥३२॥ अदीर्घात् स्वरात् परस्य र-ह-स्वरवर्जस्य वर्णस्य विरामे असंयुक्तव्यञ्जने च परेऽनु द्वे रूपे वा स्याताम् । त्वक् , त्वक् । दद्धयत्र , दध्यत्र । गो ३ त्त्रात , गो३त्रात । अर्हस्वरस्येत्येव -वर्या , वह्यम् , तितउ ।।३२|| अञ्वर्गस्यान्तस्थातः ॥१॥३॥३३॥ अन्तस्थात: परस्य वर्जवर्गस्याऽनु द्वे रूपे वा स्याताम् । उल्क्का , उल्का । अञिति किम् ? हल्लौ ॥३३॥ ततोऽस्याः ।१॥३॥३४॥ ततोऽञ्वर्गात् परस्या अस्या अन्तस्थाया द्वे रूपे वा स्याताम् । दध्य्यत्र , दध्यत्र ॥३४॥ शिटः प्रथम-द्वितीयस्य ।।३॥३५॥ शिट: परयोः प्रथम-द्वितीययोझै रूपे वा स्याताम् । त्वं क्करोषि , त्वं करोषि । त्वं क्खनसि , त्वं खनसि ॥३५॥ ततः शिटः ।।३।३६॥ ततः प्रथम-द्वितीयाभ्यां परस्य शिटो द्वे रूपे वा स्याताम् । तच् इशेते , तच शेते ॥३६।। न रात् स्वरे ।१॥३॥३७॥ १. दीर्घात् J3 । “दीर्घस्थानात्' इति बृहद्वृत्तौ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy