________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१७
व्योः ।१।३।२३॥ अवर्णात् परयो: पदान्तस्थयोर्वययो?षवति परे लुक् स्यात् , स चाऽसन्धि: | वृक्षवृश्चम् अव्ययं चाऽऽचक्षाणो वृक्षव् , अव्यय । वृक्ष याति , अव्य याति
॥२३॥
स्वरे वा ।१।३।२४॥ अवर्ण-भो-भगो-अघोभ्यः परयो: पदान्तस्थयोर्वययो: स्वरे परे लुग् वा स्यात् , स चाऽसन्धिः । पट इह , पटविह । वृक्षा इह , वृक्षाविह । त आहुः , तयाहुः । तस्मा इदम् , तस्मायिदम् । भो अत्र , भोयत्र । भगो अत्र , भगोयत्र । अघो अत्र , अघोयत्र ॥२४॥
अस्पष्टाववर्णात्त्वनुजि वा ।१॥३॥२५॥ अवर्ण-भो-भगो-अघोभ्यः परयोः पदान्तस्थयोर्वययोः , अस्पष्टौ ईषत्स्पृष्टतरौ वयौ स्वरे परे स्याताम् , अवर्णात्तु परयोयोरुञ्वर्जे स्वरेऽस्पष्टौ वा स्याताम् । पटवू , असावें , कयें , देवायें , भोत्र , भगोयँत्र , अघोपॅत्र । अवर्णात्त्वनुनि वा । पटविंह , पटविह। असाविन्दुः , असाविन्दुः , तयिंह , तयिह , तस्मायिंदम् , तस्मायिदम् ।।२५||
रोर्यः ।।३।२६॥ अवर्ण-भो-भगो-अघोभ्य: परस्य पदान्तस्थस्य रोः स्वरे परे य: स्यात् । कयास्ते , देवायासते , भोयत्र , भगोयत्र , अघोयत्र ।।२६।।
ह्रस्वान्ङ-ण-नो द्वे ।।३।२७॥ ह्रस्वात् परेषां पदान्तस्थानांङ-ण-नानां स्वरे परे द्वे रूपे स्याताम्। क्रुडास्ते , सुगण्णिह , कृषन्नास्ते ।।२७।।
अनाङ्-माङो दीर्घाद् वा छः ।१।३।२८॥ आङ्-मावर्जपदस्थाद् दीर्घात् पदान्तस्थात् परस्य छस्य द्वे रूपे वा स्याताम् | कन्याच्छत्रम् , कन्याछत्रम् । अनाङ्माङ इति किम् ? आच्छाया , माच्छिदत्
||२८||
प्लुताद् वा ॥१॥३॥२९॥ १.ङ-ण-नां खंमू१, खं३ ।। २. माङिति पा२,३, खं२ विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org