________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
रात् परस्य शिट: स्वरे परे द्वे रूपे न स्याताम् । दर्शनम् ।।३७||
पुत्रस्याऽऽदिन्-पुत्रादिन्याक्रोशे ।१॥३॥३८॥ आदिनि पुत्रादिनि च परे पुत्रस्थस्य तस्य आक्रोशविषये द्वे रूपे न स्याताम् । पुत्रादिनी त्वमसि पापे ! , पुत्रपुत्रादिनी भव । आक्रोश इति किम् ? पुत्त्रादिनी शिशुमारी , पुत्रादिनीति वा । पुत्त्रपुत्रादिनी नागी , पुत्रपुत्रादिनीति वा ॥३८||
नां धुड्वर्गेऽन्त्योऽपदान्ते ।१॥३॥३९॥ अपदान्तस्थानां म-नानां धुटि वर्गे परे निमित्तस्यैवान्त्योऽनु स्यात् । गन्ता शङ्किता , कम्पिता । धुडिति किम् ? आहन्महे । धुड्वर्ग इति किम् ? गम्यते । अपदान्त इति किम् ? भवान् करोति ।।३९।।
शिड्-हेऽनुस्वारः ।१॥३॥४०॥ अपदान्तस्थानां म्नां शिटि हे च परेऽनुस्वारोऽनु स्यात् । पुंसि , दंश: , बृंहणम् ॥४०॥
रो रे लुग् दीर्घश्चाऽदिदुतः ।१।३॥४१॥ रस्य रे परेऽनु लुक् स्यात् , अ-इ-ऊनाञ्च दीर्घः । पुना रात्रिः , अग्नी रथेन , पटू राजा ॥४१॥
ढस्तड्ढे ।१॥३॥४२॥ तन्निमित्ते ढे परे ढस्याऽनु लुक् स्यात् , दीर्घश्चादिदुतः । माढिः , लीढम् , गूढम् । तड्ढ इति किम् ? मधुलिड् ढौकते ॥४२।।
सहि-वहेरोच्चाऽवर्णस्य ।१॥३॥४३॥ सहि-वह्योढस्य तड्ढे परेऽनु लुक् स्यात् , ओच्चाऽवर्णस्य । सोढा , वोढा , उदवोढाम् ।।४३।।
उदः स्था-स्तम्भः सः ।१।३॥४४॥ उद: परयो: स्था-स्तम्भो: सस्य लुक् स्यात् । उत्थाता , उत्तम्भिता ॥४४।।
तदः सेः स्वरे पादार्था ।।३।४५॥ तदः परस्य से: स्वरे परे लुक् स्यात् , सा चेत् पादपूरणी स्यात् । सैष दाशरथी रामः । पादार्था इति किम् ? स एष भरतो राजा । ॥४५।।
एतदश्व व्यञ्जनेऽनग्-नसमासे ।१॥३॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org