________________
१२
स्वोपज्ञलघुवृत्तिविभूषितं
गवाग्रम् , गोऽग्रम् । अतीति किम् ? गवेङ्गितम् ।।३१।।
. प्लुतोऽनितौ ।१।२॥३२॥ इतिवर्जे स्वरे परे प्लुत: सन्धिभाग् न स्यात् । देवदत्त ३ ! अत्र न्वसि । अनिताविति किम् ? सुश्लोकेति ॥३२॥
इ ३ वा ।१।२।३३॥ इस्थान: प्लुत: स्वरे परे असन्धिर्वा स्यात् । लुनीहि ३ इति , लुनीहीति ॥३३।।
ईदूदेद् द्विवचनम् ।१॥२॥३४॥ ई-ऊ-ए इत्येवमन्तं द्विवचनान्तं स्वरे परे असन्धिः स्यात् । मुनी इह , साधू एतौ , माले इमे , पचेते इति । [ईदूदेदिति किम् ? वृक्षाक्त्र । द्विवचनमिति किम् ? कुमार्यत्र] ॥३४॥
अदोमु-मी ।१।२।३५॥ अदस: सम्बन्धिनौ मु-मी इत्येतौ स्वरे परे असन्धी स्याताम् । अमुमुईचा । अमी अश्वाः ॥३५॥
चादिः स्वरोऽनाङ् ।।२।३६॥ आवर्जश्वादिः स्वरः स्वरे परे असन्धि: स्यात् । अ अपेहि , इ इन्द्रं पश्य , उ उत्तिष्ठ , आ एवं किल मन्यसे , आ एवं नु तत् । अनाङिति किम् ? आ इहि- एहि ॥३६॥
ओदन्तः ।।२।३७॥ ओदन्तश्चादिः स्वरे परे असन्धि: स्यात् । अहो अत्र ॥३७॥
सौ नवेतौ ।।२॥३८॥ सिनिमित्त ओदन्त इतौ परे असन्धिर्वा स्यात् । पटो इति , पटविति ॥३८।।
ॐ चोञ् ।१।२।३९॥ उञ्चादिरितौ परे असन्धिर्वा स्यात् , असन्धौ च उऊँ इति दीर्घोऽनुनासिको वा स्यात् । उ इति , ऊँ इति , विति ॥३९।। १. गोऽग्रम् खं३ पा२,३ मध्ये नास्ति ।। २. [
मध्ये एव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org