________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
, नायकः , रायैन्द्री ॥२३॥
ओदौतोऽवाव् ।१।२।२४॥ ओदौतोः स्वरे परे यथासंख्यम् अव्-आव् इत्येतौ स्याताम् । लवनम् , पटवोतुः , लावकः , गावौ ।।२४।।
व्यक्ये ।१।२।२५॥ ओदौतो: क्यवर्जे यादौ प्रत्यये परे यथासंख्यम् अव्-आवौ स्याताम् । गव्यति , गव्यते , नाव्यति , नान्यते , लव्यम् , लाव्यम् । अक्य इति किम् ? उपोयते , औयत ।।२५।।
ऋतो रस्तद्धिते ।।२।२६॥ ऋकारस्य यादौ तद्धिते परे र: स्यात् । पित्र्यम् । तद्धित इति किम् ? कार्यम् ।।२६।।
एदोतः पदान्तेऽस्य लुक् ।१२।२७॥ एदोभ्यां पदान्तस्थाभ्यां परस्याऽकारस्य लुक् स्यात् । तेऽत्र , पटोऽत्र । पदान्त इति किम् ? नयनम् ।।२७||
गोर्नाम्न्यवोऽक्षे ।।२।२८॥ गोरोत: पदान्तस्थस्य अक्षे परे संज्ञायाम् अव इति स्यात् गवाक्षः । नाम्नीति किम् ? गोऽक्षाणि ।।२८॥
स्वरे वाऽनक्षे ।१।२।२९॥ गोरोत: पदान्तस्थस्य स्वरे परे अव इति वा स्यात् , स चेत् स्वरोऽक्षस्थो न स्यात् । गवाग्रम् , गोऽग्रम् , गवेशः , गवीशः । अनक्ष इति किम् ? गोऽक्षम् । ओत इत्येव - चित्रग्वर्थः ।।२९।।
इन्द्रे ।।२।३०॥ गोरोत: पदान्तस्थस्य इन्द्रस्थे स्वरे परे अव इति स्यात् । गवेन्द्रः ॥३०॥
म्वाऽत्यसन्धिः ॥१॥२॥३१॥ गोरोत: पदान्तस्थस्य अकारे परे सन्ध्यभावो वा स्यात् । गोअग्रम्,
१. यादौ प्रत्यये तद्धिते पा१ J3 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org