________________
१०
स्वोपज्ञलघुवृत्तिविभूषितं
अनियोगे लुगेवे ।।२।१६॥ अनियोगो अनवधारणम् , तद्विषये एवे परेऽवर्णस्य लुक् स्यात् । इहेव तिष्ठ , अद्येव गच्छ । नियोगे तु-इहैव तिष्ठ , मा गाः ॥१६॥
वौष्ठौतौ समासे ।।२।१७॥ ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुग् वा स्यात् । बिम्बोष्ठी , बिम्बौष्ठी ; स्थूलोतुः , स्थूलौतु: । समास इति किम् ? हे पुत्रौष्ठं पश्य ॥१७॥
ओमाङि ।१।२।१८॥ अवर्णस्य ओमि आङादेशे च परे लुक् स्यात् । अद्योम् , सोम् , आ ऊढा ओढा- अद्योढा , सोढा ।।१८।।
उपसर्गस्यानिणेधेदोति ।१।२।१९॥ उपसर्गस्यावर्णस्य इणेधिवर्षे एदादावोदादौ च धातौ परे लुक् स्यात् । प्रेलयति , परेलयति , प्रोषति , परोषति । अनिणेधिति किम् ? उपैति , प्रैधते ॥१९॥
वा नाम्नि ।।२।२०॥ नामावयवे एदोदादौ धातौ परे उपसर्गावर्णस्य लुग् वा स्यात् । उपेकीयति , उपैकीयति ; प्रोषधीयति , प्रौषधीयति ।।२०।।
इवर्णादेरस्वे स्वरे य-व-र-लम् ।।२।२१॥ इ-उ-ऋ-लवर्णानामस्वे स्वरे परे यथासंख्यं य् व् र् ल् इत्येते स्युः । दध्यत्र , नद्येषा , मध्वत्र , वध्वासनम् , पित्रर्थः , क्रादिः , लित् , लाकृतिः ।।२१।।
ह्रस्वोऽपदे वा ।१।२।२२।। इवर्णादीनामस्वे स्वरे परे ह्रस्वो वा स्यात् , न चेत् तौ निमित्त-निमित्तिनावेकत्र पदे स्याताम् । नदि एषा , नद्येषा । मधु अत्र , मध्वत्र । अपद इति किम् ? नद्यौ , नद्यर्थः ।।२२।।
एदैतोऽयाय ।।२।२३॥ एदैतो: स्वरे परे यथासंख्यम् अय्-आय् इत्येतौ स्याताम् । नयनम् , वृक्षयेव १. उपसर्गावर्णस्य पा१,३ J3सं० विना ।। २. च नास्ति खं२,३, पार, खंमू१ पामू३ ॥ ३. परे पायं. खं२. J3 विना नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org